________________
( अव०) ततो गुणत्रयाभिघातान्महानिति बुद्धिरुत्पद्यते । एवमेतन्नान्यथा, गौरेवायं नाश्वः स्थाणुरेवायं न पुरुष इति निश्चयेन पदार्थप्रतिपत्तिः । तस्याः ८ रूपाणिधर्मज्ञानवैराग्यैश्वर्यरूपाणि सत्त्वभूतानि अधर्मादीनि च असात्त्विकानि । ततो बुद्धेरहङ्कारोऽभिमानात्मकः तस्मादहङ्कारात् षोडशकगणमाह ||३७||
षोडशकगणमेवाह—
स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं च पञ्चमम् । पञ्च बुद्धीन्द्रियाण्याहुस्तथा कर्मेन्द्रियाणि च ॥३८॥
पायूपस्थवचः पाणिपादाख्यानि मनस्तथा । अन्यानि पञ्चरूपाणि तन्मात्राणीति षोडश ॥३९॥ युग्मम्
(सो० ) पञ्च बुद्धीन्द्रियाणीति सम्बन्धः । स्पर्शनं त्वगिन्द्रियम्, रसनं जिह्वा, घ्राणं नासिका, चक्षुर्नेत्रं पञ्चमं च श्रोत्रं कर्ण इति एतानि पञ्च बुद्धिप्रधानानि बुद्धिसहचराण्येव ज्ञानं जनयन्तीति कृत्वा बुद्धीन्द्रियाण्याहुः कथयन्ति तन्मतीया इति । तथा कर्मेन्द्रियाणि चेति । तथा पूर्वोद्दिष्टपञ्चसङ्ख्यामात्रमपि परामृशति । तान्येवाह - पायूपस्थवचः पाणिपादाख्यानीति । पायुरपानम्, उपस्थः प्रजननम् वचो वाक्यम्, पाणिर्हस्तः, पादश्चरणस्तदाख्यानि पञ्च कर्मेन्द्रियाणि, कर्म कार्यव्यापारस्तस्य साधनानीन्द्रियाणीति कर्मेन्द्रियाणि । तथा मन एकादशमिन्द्रियमित्यर्थः । अन्यानि पञ्चरूपाणि तन्मात्राणि चेति । रूपरसगन्धशब्दस्पर्शाख्यानि तन्मात्राणीति षोडश ज्ञेयाः ॥३८-३९॥
(अव०) बुद्धिप्रधानानि बुद्धिसहचराण्येवेति कृत्वा बुद्धीन्द्रियाणि । स्पर्शनं त्वगिन्द्रियम् । कर्म- क्रियासाधनानि इन्द्रियाणि कर्मेन्द्रियाणि । पायुरपानम् । उपस्थः प्रजननम् । वच:पाणिपादाः प्रसिद्धाः । मन एकादशम् । पञ्चतन्मात्राणि शब्दरूप - रसगन्धस्पर्शाख्यानि । एवं षोडशको गणः ॥३८-३९॥
पञ्चतन्मात्रेभ्यः पञ्चभूतोत्पत्तिमाह—
रूपात्तेजो रसादापो गन्धाद्भूमिः स्वरान्नभः । स्पर्शाद्वायुस्तथैवं च पञ्चभ्यो भूतपञ्चकम् ॥४०॥
• ३७ ●