________________
न्तराणां तथाभावेऽपि नानित्यत्वं तहि शब्दस्यापि तन्मा भूदिति अनित्यत्वमात्रापादनपूर्वकविशेषोद्भावनाच्चाविशेषसमातो भिन्नेयं जातिः (२३) ।
प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्थानं कार्यसमा जातिः । यथानित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्युक्ते जातिवाद्याह-प्रयत्नस्य द्वैरूप्यं दृष्टं किञ्चिदसदेव तेन जन्यते यथा घटादिकम्, किञ्चित्सदेवावरणव्युदासादिना अभिव्यजते यथा मृदन्तरितमूलकीलादि । एवं प्रयत्नकार्यनानात्वादेष प्रयत्नेन शब्दो व्यज्यते जन्यते वेति संशय इति संशयापादानप्रकारभेदाच्च संशयसमातः कार्यसमा जातिर्भिद्यते (२४) ।
__ तदेवमुद्भावनविषयविकल्पभेदेन जातीनामानन्त्ये सङ्कीर्णोदाहरणविवक्षया चतुर्विंशतिजातिभेदा एते दर्शिता इति ॥३शा
(अव०) हेतुरूपवदाभासन्ते हेत्वाभासाः पञ्च । पक्षे धर्मत्वं नास्ति सोऽसिद्धः । विपक्षे सन् सपक्षे चासन् विरुद्धः । पक्षत्रयवृत्तिरनैकान्तिकः । प्रत्यक्षागमविरोध: कालात्ययापदिष्टः । विशेषाग्रहणं हेतुत्वेन प्रयुज्यमानं प्रकरणसमः । परोपन्यस्तवादे स्वाभिमतकल्पनया वचनविघातः छलम् । नवोदक: प्रत्यग्रोदकः नवसङ्ख्यामारोप्य दूषयति । मञ्चाः क्रोशन्तीति छलम् । अदूषणान्यपि दूषणवदाभासन्ते आभासमात्रत्वादेव पक्षं न दूषयन्ति जातयः साधर्म्यादि । 'अनित्यः शब्दः कृतकत्वात् घटवत्' वादिनेत्युक्ते प्रतिवाद्याह- 'नित्यः शब्दो निरवयवत्वादाकाशवत्' न चात्र हेतुः घटवदनित्यत्वे आकाशवन्नित्यत्वे नित्यत्वेऽप्याकाशवद् वास्ति ॥३१॥
दूषणाभासानुक्त्वा निग्रहस्थानमाह
निग्रहस्थानमाख्यातं परो येन निगृह्यते ।
प्रतिज्ञाहानिसंन्यासविरोधादिविभेदवत् ॥३२॥
(सो०) येन केनचिद् रूपेण परो विपक्षो निगृह्यते परवादी वचननिग्रहे पात्यते तन्निग्रहस्थानमाख्यातं कथितमिति । कतिचिद्भेदान् नामतो निर्दिशन्नाह-प्रतिज्ञाहानिसंन्यासविरोधादिविभेदवत् । हानिसंन्यासविरोधाः प्रतिज्ञाशब्देन सम्बध्यन्ते, आदिशब्देन शेषानपि भेदान् परामृशति । एतद्रूषणजालमुत्पाद्यते येन तन्निग्रहस्थानम् । यदुक्तं-"विप्रतिपत्तिरप्रतिपत्तिश्च
• २९ .