________________
विज्ञेयोऽवगन्तव्यः । तुशब्दः पाश्चात्त्यार्थसङ्ग्रहः पूर्वसमुच्चयार्थे । चतुर्थमार्यसत्यमाह-निरोधः किमित्याशङ्कायां मोक्ष उच्यते । मोक्षोऽपवर्गः । सर्वक्षणिकत्वसर्वनैरात्म्यवासनारूपो निरोधो नामार्यसत्यमभिधीयत इत्यर्थः ॥७॥
___ (अव०) सर्वेषां घटपटादीनां स एवायमिति ये संस्कारा ज्ञानसन्तानास्ते क्षणिकाः, सर्वं सत् क्षणिकम् अक्षणिके क्रमयौगपद्याभ्यामर्थक्रियाविरोधात, एवं या वासना स मार्गः । तुशब्दः पाश्चात्यार्थसङ्ग्रहार्थं पूर्वंसमुच्चयार्थे । निरोधो मोक्षः । सर्वक्षणिकत्वनैरात्म्यवासनारूप: मार्गः ॥७॥
अथ तत्त्वानि व्याख्याय तत्संलग्नान्येवायतनान्याह
पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् । धर्मायतनमेतानि द्वादशायतनानि च ॥८॥
(सो०) पञ्चसङ्खयानीन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणि । शब्दाद्या विषयाः पञ्च, शब्दरूपरसस्पर्शगन्धरूपाः पञ्च विषया इन्द्रियव्यापारा इत्यर्थः । मानसं चित्तम् । धर्मायतनमिति धर्मप्रधानमायतनं धर्मायतनं चैत्यस्थानमिति । एतानि द्वादशसङ्ख्यानि ज्ञातव्यानि न केवलमेतानि द्वादशायतनानि जाति-जरा-मरण-भवोपादान-तृष्णा-वेदना-स्पर्श-नामरूपविज्ञान-संस्काराविद्यारूपाणि द्वादशायतनानि । चः समुच्चये । अमी सर्वेऽपि संस्काराः क्षणिकाः । शेषं तदेवेति ॥८॥
(अव०) पञ्चेन्द्रियाणि प्रसिद्धानि । शब्दरूपरसगन्धस्पर्शरूपाः विषयाः । मानसं चित्तम् । धर्मायतनं धर्मप्रधानमायतनं चेत्यादि । एतानि द्वादशायतनानि तत्त्वानन्तरं निरूप्यन्ते ॥८॥
तत्त्वानि व्याख्यायाधुना प्रमाणमाह
प्रमाणे द्वे च विज्ञेये तथा सौगतदर्शने । प्रत्यक्षमनुमानं च सम्यग्ज्ञानं द्विधा यतः ॥९॥