________________
(अव०) संसरन्तीति संसारिणो विस्तरणशीलाः । स्कन्धाः प्रचयविशेषाः दुःखं ते च पञ्च । विशिष्टं ज्ञानं विज्ञानं सर्वक्षणिकत्वज्ञानम् । यदुक्तम्
यत्सत्तत् क्षणिकं यथा जलधरः सन्तश्च भावा इमे ।
वेद्यत इति वेदना, पूर्वभवपुण्यपापपरिणामबद्धाः सुखदुःखानुभवरूपा । तथोक्तम्
इत एकनवते कल्पे शक्त्या में पुरुषो हतः । तत्कर्मणो विपाकेन पादे विद्धोऽस्मि भिक्षवः ॥
सज्ञेति सर्व वा चेनं सचेतनाचेतनं सज्ञामात्र नाममात्रम्, नात्र पुत्रकलत्रभ्रातृत्वादिः घटपटदिर्वा पारमार्थिकः । पूर्वानुभूतरूपः संस्कारः, स एवायं देवदत्त इत्याद्याकारेण ज्ञानोत्पत्तिः संस्कारः सैवेयं दीपकलिकेति रूपम् इति रगरगायमाणपरमाणुप्रचयः, बौद्धमते हि स्थूलरूपपदार्थस्य निराक्रियमाणत्वाद् चेतनत्वेन परमाणव एव तात्त्विकाः ॥५॥
दुःखनामधेयमार्यसत्यं पञ्चभेदतया निरूप्य अथ समुदयतत्त्वस्य स्वरूपमाह
समुदेति यतो लोके रागादीनां गणोऽखिलः । _आत्मात्मीयस्वभावाख्यः समुदयः स सम्मतः ॥६॥
(सो०) यतो यस्माल्लोके रागादीनां रागद्वेषमोहानामखिलः समस्तो गणः समुदेत्युद्भवति । कीदृगित्याह-आत्मात्मीयस्वभावाख्यः । अयमात्मा, अयं चात्मीयः, पदे पदसमुदायोपचारादयं परः अयं च परकीय इत्यादिभावो रागद्वेषनिबन्धनं तदाख्यः-तन्मूलो रागादीनां गणः । आत्मात्मीयरूपेण रागरूपः परपरकीयपरिणामेन च द्वेषरूपो यतः समुदेति स समुदयः समुदयो नाम तत्त्वं सम्मतो बौद्धदर्शनेऽभिमत इति ॥६॥
(अव०) रागद्वेषमोहानां समस्तो गणो यस्मात् समुदेति समुद्भवति । अयमात्मा अयमात्मीयः पदे पदसमुदायोपचारात्, अयं परः परकीय इति भावो रागद्वेषनिबन्धनं स समुदयः ॥६॥