________________
अथापि वेददेहत्वाद् ब्रह्मविष्णुमहेश्वराः ।
कामं भवन्तु सर्वज्ञाः सार्वज्यं मानुषस्य किम् ॥ एतदपि न; रागद्वेषमूलनिग्रहानुग्रहग्रस्तानामसम्भाव्यमिदमेषामिति । न च प्रत्यक्षं तत्साधकम्, 'सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना' (मी० प्रत्य० श्लो० ८४) इति वचनात् । न चानुमानम्, प्रत्यक्षदृष्ट एवार्थे तत्प्रवृत्तेः । न चागमः, सर्वज्ञस्यासिद्धत्वेन तस्यापि विवादास्पदत्वात् । न चोपमानम्, तदभावादेव । अर्थापत्तिरपि न; सर्वज्ञसाधकस्यान्यथानुपपन्नलिङ्गस्यादर्शनात् । यदि परमभावप्रमाणगोचरः सर्वज्ञ इति स्थितम् । प्रयोगश्चात्र-नास्ति सर्वज्ञः, प्रत्यक्षादिगोचरातिक्रान्तत्वात्, शशशृङ्गवदिति ॥६८॥
(अव०) षष्ठं दर्शनमाह-जैमिनिमुनेरमी जैमिनीयाः, पुत्रपौत्राद्यर्थे तद्धित ईयप्रत्ययः । जैमिनिशिष्याश्चैके पूर्वमीमांसावादिनः, एके उत्तरमीमांसावादिनो ते हि पुरुषाद्वैतवादसाधनव्यसनिनः शब्दार्थखण्डकाः । पूर्वमीमांसावादिनो द्विधा प्राभाकरा:भट्टाश्च क्रमेण पञ्चषट्प्रमाणप्ररूपकाः । अत्र तु सामान्येनैव सूत्रकृत् पूर्वमीमांसावादिन एव जैमिनीयानुद्दिष्टवान् । तन्मते प्राहु:- सर्वज्ञत्वादिविशेषणोपपन्नः कोऽपि नास्ति मानुषत्वाविशेषेण विप्रलम्भकत्वात् (सर्वज्ञत्वादिविशिष्टपुरुषाद्यभावः) यदुक्तं प्रमाणं भवेद् वाक्यम् । अथ कथं यथावस्थितत्वनिर्णयः ? ॥६८||
अथ कथं यथावस्थिततत्त्वनिर्णय इत्याह
तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टुरभावतः । नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः ॥६९॥
(सो०) तस्मात्प्रामाणिकपुरुषाभावादतीन्द्रियार्थानां चक्षुरगोचरपदार्थानां साक्षाद् द्रष्टुर्जातुः सर्वज्ञादेः पुरुषस्याभावाद् नित्येभ्यः शाश्वतेभ्यो वेदवाक्येभ्योऽपौरुषेयवचनेभ्यो यथार्थत्वविनिर्णयो यथावस्थितपदार्थधर्मादिस्वरूपविवेचनं भवति' इत्यध्याहारः । अपौरुषेयत्वं च वेदानाम्
अपाणिपादो ह्यमनो गृहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति विश्व न च तस्य वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥
(श्वेताश्वतरो० ३.१.९)
.७० .