________________
सनातनजैनग्रंथमालायांमुख्यं शब्दात्मकं वाक्यं लिप्यामारोप्यते जनैः । पत्रस्थत्वात्तु तत्पत्रमुपचारोपचारतः ॥ १॥ अथवा प्रकृतवाक्यस्य मुख्यत एव पत्रव्यपदेश इति निगेंदामः पदानि त्रायंते गोप्यंते रक्ष्यंते परेभ्यः प्रतिवादिभ्यः स्वयं विजिगीषुणा यस्मिन् वाक्ये तत्पत्रमिति पत्रशब्दस्य निर्वचनसिद्धेः । तथा लोके व्यवहर्तरि शास्त्रे च गुरुपर्वक्रमायाते प्रतीतेः न च पदानि विनिश्चितपदस्वरूपतदभिधेयतत्त्वेभ्यः परेभ्यस्त्रातुमशक्यान्येव कुतश्चिद्वर्णविपर्यासनादेः प्रकृतिप्रत्ययादिगोपनाद्वा तत्राणसंभवात् पदगूढादिकाव्यवत्तदुक्तं
त्रायंते वा पदान्यस्मिन्परेभ्यो विजिमीषुणा । कुतश्चिदिति पत्रं स्याल्लोके शास्त्रे च रूढितः॥२॥ न चैवमसाधुपदास्पदमपि वाक्यं पत्रमासज्यते सुस्पष्टपदमेव वा साधुगूढपदप्रायमिति वचनात्तदुक्तं__नचासाधुपदं वाक्यं प्रस्पष्टपदमेव वा । साधुगूढपदप्रायमिति तस्य विशेषणात् ॥ ३ ॥ पदपादादिगूढकाव्यमेवं पत्रं प्राप्नोति इति चेन्न प्रसिद्धावयवत्वेन विशिष्टस्य पत्रत्ववचनात् न हि पदमूढादिकाव्यं प्रमाणसिद्धप्रतिज्ञाद्यवयवविशेषणतया किंचित्प्रसिद्धं तस्य तथा प्रसिद्धौ पत्रव्यपदेशसिद्धेरवाधितत्वात्तदुक्तं
पदगूढादिकाव्यं च नैवं पत्रं प्रसज्यते । प्रसिद्धावयवत्वेन विशिष्टस्याभिधानतः ॥ स्र्वंयमिष्टस्यार्थस्यासाधकमपि ता(ग्वाक्यं पत्रमेवमासक्तमिति चेन्न स्वेष्टार्थसाधनस्यैवेह पत्रविचारे पत्रत्ववचनात् तदप्य॑भिहितं
स्वेष्ठार्थासाधनस्यापि नैवं पत्रत्वमापतेत् । स्वेष्टार्थसाधनस्यैव पत्रत्ववचनादिह ॥ ___ ततो नाक्षपादादीनामेकांतवादिनां पत्रवाक्यमसंभवदर्थकं इति केचित्तदसत् यथोक्तलक्षणस्य पत्र वाक्यस्य तेषां विचार्यमाणस्याव्यवस्थितेः तीहि-नाक्षपादस्य तावद्यथोक्तलक्षणं पत्रवाक्यं संभवति. प्रसिद्धावयवत्वस्य विरहात्सुगतादीनामिव । तदवयवाहि प्रतिज्ञादयः पंचाक्षपादेनाभिधीयते प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवा इति सूत्रप्रणयनात् । तत्रागमः प्रतिज्ञा विश्वतश्चक्षुरिति विश्वतो मुखोः विश्वतो बाँड्डुरिति विश्वतः पात् संबाहुँभ्यां धमति संपतत्रैवाभूमी जनयन् देवएक इति. यथा आगमार्थो वा प्रतिज्ञा विवादाध्यासितमुपलब्धिमत्कारणकमिति । यथा हेतुरनुमानं तेन प्रतिज्ञातार्थस्यानुमीयमानत्वात् कार्यत्वादिति। यथा उदाहरणं प्रत्यक्षं वादिप्रतिवादिनोर्यत्र बुद्धिसाम्यं तदुदाहरणमिति वचनात् वस्त्रादिवदिति यथा उपनयमुपमानं दृष्टांतः धर्मिसाध्यधर्मिणोः सादृश्यात्, “प्रसिद्धसाधात् साध्यसाधनमुपमानमिति" वचनात् यत्कार्य तदुपलब्धिमत्कारणकं दृष्टं यथा वस्त्रादि तथा च विवादाध्यासितमिति । यथा सर्वेषीमेकविषयत्वप्रदर्शनफलं निगमनं तस्मादुपलब्धिमत्कारणकमिति यथा आगमानुमानप्रत्यक्षोपमानवत् फलसमुदायरूप-- त्वात्पंचानामवयवानामिति व्याख्यानात् । न चैते. पंचावयवाः प्रमाणतो विचार्यमाणा विपश्चिच्चेतसि सुनिश्चिताश्चकासति, पत्रवाक्याभासेऽपि संभवात् तेषां पक्षधर्मत्वसपक्षेसत्वविपक्षासत्वमात्राणामित्र त्रयाणामवयवानां सुगतसंमतीनां वीतादीनामिव कपिलविकल्पितानां तदभावेऽपि पत्रवाक्यस्य स्वार्थसाधनस्य दर्शनात् साध्याविनाभावनियमनिश्चयलक्षणादेव. हेतोः साध्यप्रसिद्धेः तदुक्तं.
न चैवं लक्षणं पत्रमक्षपादस्य युज्यते । प्रसिद्धावयवत्वस्य विरहात्सुगतादिवत् ॥ १ ॥ पत्रस्यावयवाः पंच प्रतिज्ञादय इत्यसत् । पत्राभासेऽपि सद्भावात्तेषां त्रैरूपमात्रवत् ॥ २r तदभावेऽपि पत्रस्य स्वार्थसाधनतेक्षणात् । हेतोः साध्याविनाभावनियमात्मकतो यथा ॥३॥
सत्सत्सदितिसंक्षेपात्साध्यसाधनदर्शनं । व्याप्त्याः सामर्थ्यतः सर्वनामाभावेऽपि निश्चितं ॥४॥ ननु च यत्कृतकं तदनित्यं दृष्टं. यथा घट इत्यादौ सति सर्वनामप्रयोगे. व्याप्त्या साध्यसाधनवचनः १ पदसमुदायात्मकं। २ वयं जैना: । ३ परंपरा । ४ वाक्यस्य । ५ पत्रत्वाभिधानात् । ६ वादिप्रतिवादिभ्यां । प्रसिद्धावयवं साधुगूढपदमयं च । ८ अभ्यधायि । ९ न प्राप्नोति । १० तदेव विवृणोति । ११ धर्मधर्मिसमुदायःप्रतिज्ञा १२ सर्वदर्शित्वात् । १३ सकलशास्त्रप्रणेतृत्वात् । १४.सर्वकर्तृवात् । १५ सर्वगतत्वात् । १६ पुण्यपापाभ्यां । १७. परमाणुभिः । १८ क्षित्यादिकं । १९ बुद्धिमत्कारणकं । २० प्रतिज्ञाद्यवयवानां । २१ कार्यत्वात् । २२ पूर्वोक्तसूत्रव्या-- ख्यानात् ।