________________
रीतमेवांगीकुर्वाणाश्च कुपिता संबभूवुः आचक्रमुश्च तदुपरि । विलोक्य तदविनीतवृत्तिमिमा श्रीमद्विद्यानंदिप्रभुः विरचयामास तदाशयं समंजसतया विशादीकुर्वाणाष्टशतीसंज्ञकं भाष्यग्रंथं । अतोनुमीयते श्रीमदष्टसहस्रीरचयिता पात्रकेसरीत्यपराभिधानो विद्यानंदस्वाम्येवेति ।
अन्यच्च हुमचानगरशिलालेखोद्धृतचरमवाक्यतोऽपि विद्यानद्येव पात्रकेसरीति विनिश्चीयते । इति प्रमाणपंचकेनावगम्यते निस्संशयं किलैतद्यद्विद्यानंद्येव पात्रकेसरीत्यपराभिधानो नापर इति ।
बिज्ञायते किलैतदस्माभिर्यद्यावद्विदांवरोयं महात्माहतदीक्षादीक्षितो नाभूत्तावदेव पात्रकेसरीत्यभिहितिमधत्त। आर्हतपथानुगामिसमये तु निखिलजनहृदयानंददां विद्यानंदसंज्ञामभार्षीत् अतएव श्रीब्रह्मनेमिदत्तमहोदयेनैतदार्हतपथानुगामित्वाल्लेखे यावन्नाजन्ययं महात्मा जैनमार्गानुगामी तावत्पात्रकेसरीत्यभिधया विज्ञापितः।जैनधर्मदीक्षादीक्षितत्वे तु विद्यानंदिनाम्नेति तत एव महात्मायं पुरातनस्वीयनामोल्लेखनानावश्यकतामवगच्छमानो नाविर्भावयांचक्रे पात्रकेसरीत्यात्मीयं पाराचीनं नाम कुत्रापि स्वकरकलितग्रंथसंदोहे ।
विभुरयं विद्यानंदी समजनि खलु नंदिसंघस्याचार्य इत्यनुमीयते । न खलु निश्चयेन प्रतिपादयितुं शक्यते । विशुद्धात्मनः किलैतस्य दीक्षाचार्यः कः कश्चोपाध्यायपदाधिरुढ़ोऽभूदिति न समंजसतयावसीयतेऽ स्माभिः । कतमेऽपि स्वकररचितग्रंथे समुल्लेखोऽपि न कृतोनेन स्वामिना स्वगुरुपरंपरायाः ।
पात्रकेसरिकथा । भट्टारक श्रीमत्प्रभाचंद्रब्रह्मनेमिदत्ताभ्यां या स्वरचितकथाकोशग्रंथे पात्रकेसरिणः कथा विलिखिता ततएव किंचिद् विज्ञायते न ततोऽधिकं किमप्यनवद्यप्रतिभस्यैतस्य विदुषो जीवनेतिहासे समीचीनतयाघगम्यते खेदयति किलाऽस्मद्देशीयेतिहाससामिग्रयभावोयमस्मन्मनः ।
वरीवर्ति पात्रकेसरिणः किलेत्थं कथा
शास्तिस्म कश्चिन्मगधदेशांतोऽहिच्छत्रपुरेऽन्वर्थसंज्ञां विभ्राणोऽअवनिपालोनामावनिपालः तस्य च परिषदि वेदवेदांगादिविविधविषयपारावारपारदर्शिनः शतपंचकब्राह्मणविद्वद्रत्नानि समभूवन् । राजधान्या च तस्यावनिपालस्य राजतेस्म कश्चिन्नानाविधमणितोरणादिविभूषितः श्रीपाजिनेंद्रमंदिर:-अथकदाचित्ससजनि कुतूहलस्तेषां विदुषां पार्श्वजिनालयं विलोकयितुं । यदा च सर्वे ते तं विलोकयितुमगमन् तदा तत्र पार्श्वजिनाभिमुखीभूय जिनभक्तिवशंगतश्चारित्रभूषणाभिधानः कश्चित्परमर्षिः देवागमस्तोत्रं पठन् दृष्टिगोचरतां समापतत् । समाकर्ण्य च तन्मुनिलपननिःसृतस्तोत्रमवोचत्तदन्यतमविद्वदग्रणीः श्रीमत्पात्रकेसरी विदांवरः ।मुने! समंजसतयाभाति किल भवल्लपननिःसृतं स्तोत्रमिदं'अनुगृह्य मुहुः श्रावयतु पापठ्येदमिति श्रुत्वा भक्तिवशंवदतद्विज्ञवचनं, यतिभंगादिदोषं परिहरमाणः स मुनिः पुनरपि तत्स्तोत्रं पठितुमारेभे विद्वान् पात्रके सर्यपि तत्तात्पर्य हृदयस्थं समीहमानो भक्त्या शुश्राव च । यदा च तत्स्तोत्रं परिपूर्णतामगमत् तत्तात्पर्य च श्रीमत्पात्रकेसरिबुद्धिस्थमभूत् , तदात्वे एव तस्य विदुषः प्रबलदर्शनमोहकर्मणः क्षयोपशमः संप्रत्यपादि। विचचार च स्वचेतसि स यज्जीवाजीवादितत्त्वस्वरूपोपवर्णनमार्हतमार्गानुसार्येवानवा नान्यस्येति, स्थिते सत्येवं प्रत्यहमेतन्महोदयस्य, आर्हतमततत्त्वबुभुत्सालता वृद्धिं समुपागच्छत् । स्वसहचारिभिः सह परावृत्य च जिनालया न्महात्मायमेनमेवविषयं पराममर्ष परंतु रजन्यां स्वशयनावासे शयानस्य तस्य विदुषः साहसिकोयं विचारो बुद्धौ समारुरोह यत् यद्यप्याहमते प्रमाणपद्धतिः समीचीना किंत्वनुमानप्रमाणलक्षणं किमभिमतमिति नाव गतं, चिंतापारावारे निमग्ने सत्येवं तस्मिन् विदुषि अवधिबलतस्तत्तात्पर्य जानती भगवती पद्मावती पुरस्तात्समुपस्थायावोचत् प्राज्ञप्रवर ! नैवंविधचिंताभाजनमसि । भगवत्पार्श्वदर्शनसमयएवैतच्छंसीतिपरावृत्तिर्भविष्यति भवतां । विज्ञास्यते चानवद्यानुमानस्वरूपमित्युक्त्वांतरधात् गत्वा च जिनालये पार्श्वजिनफणमंडपोपरि विलिलेख च ।
१ ब्रह्मचारी नेमिदत्तोयं समजनि किल भट्टारकनेमिचंद्रांतेवासी। अभूदयं १६ तमायां शताद्वौ। भधारकप्रभाचंद्रकरकालतकथाकोसस्यानेनेव ब्रह्मचारिणा पद्यानुवादोविहितः ।