________________
७६
सनातनजैनग्रंथमालायांतदुक्तं-अकलंकदेवैः
साध्यं शक्यमभिप्रेतमप्रसिद्ध ततोऽपरं
साध्याभासं विरुद्धादि साधनाविषयत्वतः॥१॥ तदेत्साधनात् साध्यविज्ञानमनुमानं स्वार्थमभिनिबोधलक्षणं विशिष्टमतिज्ञानं साध्यं प्रत्यभिमुखान्नित्थमितात्साधनादुपजातबोधस्य तर्कफलस्याभिनिबोध इति संज्ञाप्रतिपादनात् । परार्थमनुमानमनक्षरश्रुतज्ञानंअक्षरश्रुतज्ञानं च तस्य श्रोत्रमतिपूर्वकस्य च तथात्वोपपत्तेः । शब्दात्मकं तु परार्थानुमानमयुक्तं शब्दस्य प्रत्यवमर्शिनोऽपि सर्वस्य द्रव्यागमरूपत्वप्रतीतेः कथमन्यथा प्रत्यक्षमपि शब्दात्मकं परार्थं न भवेत् सर्वथा विशेषाभावात् प्रतिपादकप्रतिपाद्यजनयोः स्वपरार्थानुमानकार्यकारणत्वसिद्धरुपचारादनुमानपरामर्शिनो वाक्यस्य परार्थानुमानत्वप्रतिपादनमविरुद्धं नान्यथातिप्रसंगादिति बोद्धव्यं । तदेत्परोक्षं प्रमाणमविशदत्वात् श्रुतज्ञानवत् ।
किं पुनः श्रुतज्ञानमित्येतदभिधीयते-श्रुतज्ञानावरणवीर्यांतरायक्षयोपशमविशेषांतरंगे कारणे सति बहिरंगे मतिज्ञाने च, अनिद्रियविषयालंबनं, अविशदं ज्ञानं श्रुतज्ञानं । केवलज्ञानं तीर्थकरत्वनामपुण्यातिशयोदयनिमित्तकभगवत्तीर्थकरध्वनिविशेषादुत्पन्नं गणधरदेवश्रुतज्ञानमेवमसंगृहीतं स्यादिति न शंकनीयं तस्यापि श्रोत्रमतिपूर्वकत्वात् । प्रसिद्धमतिश्रुतावाधिमनःपर्ययज्ञानानि वचनजनितप्रतिपाद्यजनवचनश्रुतज्ञानवत् । समुद्रघोषजलधरस्वनश्रुतिजनिततदविनाभाविपदार्थविषयश्रुतज्ञानवद्वा ततो निरवद्यं श्रुतज्ञानलक्षणंअव्याप्त्यतिव्याप्त्यसंभवदोषरहितत्वात् । अनुमानलक्षणवत् । तदेवंविधं श्रुतज्ञानं प्रमाणमविसंवादकत्वात् प्रत्यक्षानुमानवत् । नचासिद्धमविसंवादकत्वमस्येति शंकितव्यं ततोऽर्थे परिच्छिद्य प्रवर्तमानस्य विसंवादाभावात् सर्वदाऽर्थक्रियायां संवादप्रसिद्धेः प्रत्यक्षादिवत् ।
ननु च श्रोत्रमतिपूर्वकश्रुतज्ञानादर्थं प्रतिपद्य वर्तमानस्यार्थक्रियायामविसंवादकस्य कचिदभावात् न प्रामाण्यं सर्वत्रानाश्वासादिति चेत् ? न प्रत्यक्षादेरपि शुक्तिकाशकलं रजताकारतया परिच्छिद्य तत्र प्रवर्त मानस्यार्थक्रियायां रजतसाध्यायामविसंवादविरहात् । सर्वत्र प्रत्यक्षेऽनाश्वासादप्रामाण्यप्रसंगात्। प्रत्यक्षाभासे विसंवाददर्शनान्न प्रत्यक्षेऽनाश्वासोऽनुमानवदिति चेत् तर्हि श्रुतज्ञानाभासाद्विसंवादप्रसिद्धः सत्यश्रुतज्ञाने कथमनाश्वासः? नच सत्यं श्रुतज्ञानमसिद्धं तस्य लोके प्रसिद्धत्वात् सुयुक्तिकसद्भावाच्च तथाहि श्रोत्रमतिपूर्वकं श्रुतज्ञानं प्रकृतं सत्यमेव अदुष्टकारणजन्यत्वात् प्रत्यक्षादिवत् । तद्द्विविधं सर्वज्ञासर्वज्ञवचनश्रवणनिमित्तत्वात् । तच्चोभयमदुष्टकारणजन्यं गुणवद्वक्तृकशब्दजनितत्वात् ।
ननु च नद्यास्तीरे मोदकराशयः संतीति प्रहसनेन गुणवद्वक्तृकशब्दादुपजनितस्यापि श्रुतज्ञानस्यासयत्वसिद्धेर्व्यभिचारिगुणवद्वक्तृकशब्दजनितत्वमदुष्टकारणजन्यत्वे साध्ये ततो न तत्तद्गमकमिति न मंतव्यं प्रहसनपरस्य वक्तुर्गुणवत्त्वासिद्धेः प्रहसनस्यैव दोषत्वादज्ञानादिवत् । कथं पुनर्विवादापम्नस्य श्रोत्रमतिपूर्वक श्रतज्ञानस्य गुणवद्वक्तृकशब्दजनितत्वं सिद्धं ? इति चेत् सुनिश्चितासंभवद्वाधकत्वादिति भाषामहे । प्रत्यक्षे ह्यर्थे प्रत्यक्षस्यानुमेयेऽनुमानस्यात्यंतपरोक्षे चागमस्य वाधकस्यासंभवात् असंभवद्वाधकत्वं तस्य सिद्ध । देशकालपुरुषांतरापेक्षयापि संशयानुत्पत्तेः सुनिश्चितत्वविशेषणमपि साधनस्येति नासिद्धताशंकावतरति । नाप्येनैकांतिकता विपक्षे क्वचिदसंभवात् । न विरुद्धता सुनिश्चितासंभद्वाधकस्य श्रुतज्ञानस्य अगुणवद्वक्तृक शब्दजनितस्य वादिप्रतिवादिप्रसिद्धस्यासंभाव्यमानत्वात् । तथा व्याहतत्वाच्च । कथंचिदपौरुषेयशब्दजनित श्रुतज्ञानस्य तु गुणवद्वक्तृकशब्दजनितत्वेनादुष्टकारणजन्यत्वं सिद्धयेत् । ततश्च सत्यत्वमिति स्याद्वादिनां सर्वमनवा पर्यायार्थिकनयप्राधान्यात् द्रव्यार्थकनयगुणभावाच्च श्रुतज्ञानस्य गुणवद्वक्तृकशब्दजनितत्वसिद्धः द्रव्यार्थेकप्राधान्यात्पर्यायार्थिकगुणभावाच्च गुणवद्व्याख्यातृकशब्दजनितत्वोपपत्तश्च । नच सर्वथा पौरुषेयःशब्दोऽपौरुषेयो वा प्रमाणतः सिद्धयते ।
ननु च विवादापनः शब्दः पौरुषेय एव प्रयत्नानंतरीयकत्वात् पटादिवदित्यनुमानात् आगमस्य द्वादशांगस्यांगबाह्यस्य चानेकभेदस्य पौरुषेयत्वमेव युक्तं भारतादिवदिति कश्चित सोऽप्येवं पृष्टः सन्नाचष्टां-किं