________________
सनातनजैनग्रंथमालायांसकलप्रमाणानामत्रैवांतर्भावादिति विभावनात् । परपरिकल्पितैकद्वित्र्यादिप्रमाणसंख्यानियमे तदघटनात् । तथाहि-येषां प्रत्यक्षमेकमेव प्रमाणं न तेषामनुमानादिप्रमाणांतरस्यांतर्भावः संभवति तद्विलक्षणत्वात् । प्रत्यक्षपूर्वकत्वादनुमानादेः प्रत्यक्षभावः इत्ययुक्तं प्रत्यक्षस्यापि कचिदनुमानपूर्वकत्वादनुमानादिश्वंतर्भावप्रसंगात्। यथैव हि धर्मिहेतुदृष्टांतप्रत्यक्षपूर्वकमनुमानं श्रोत्रप्रत्ययपूर्वकं च शाब्दं । सादृश्यानन्यथाभावनिषेध्याधारवस्तुप्राहि प्रत्यक्षपूर्वकाणि चौपमानाथापत्त्यभावप्रमाणानि तथा-अनुमानेन कृशानुं निश्चित्य तत्र प्रर्वतमानस्य प्रत्यक्षमनुमानपूर्वकं रूपाद्रसं संप्रतिपद्य रसे रासनसमक्षवत् । शब्दाच्च मृष्टं पानकमवगम्य तत्र प्रवृत्तौ प्रत्यक्षं शाब्दपूर्वकं । क्षीरस्य संतर्पणशक्तिमर्थापत्त्याधिगम्य भीरे प्रवृत्तस्य तदात्मके प्रत्यक्षमापत्तिपूर्वकं । गोसादृश्याद्वयमवसाय त व्यवहरतः प्रत्यक्षनुमानपूर्वकं । गृहे सर्पाभावमभावप्रमाणाद्विभाव्य प्रविशतः प्रत्यक्षमभावपूर्वकं प्रतीयते एव ततः प्रत्यक्षमेव गौणत्वादप्रमाणं न पुनरनुमानादिकं तस्यागौणत्वादिति शुष्के पतिष्यामि इति जातः पातः कर्दमे ।
स्यादाकूतं न प्रत्यक्षं-अनुमानागमार्थापत्त्युपमानाभावसामग्रीपूर्वकं तदभावेऽपि चक्षुरादिसामग्रीमात्रात्तस्य प्रसूतेः प्रसिद्धत्वात् । तदभाव एव अभावनियमादिति तदप्यसत् लैंगिकादीनामपि प्रत्यक्षपूर्वकत्वाभावात् । लिंगशब्दानन्यथाभावसादृश्यप्रतियोगिस्मरणादिसामग्रीसद्भाव एव भावात् । सत्यपि प्रत्यक्षे स्वसामिप्रयभावेऽनुमानादीनामभावात् । ततः किं बहुनोक्तेन प्रतिनियतसामग्रीप्रभवतया प्रमाणभेदमभिमन्यमाने प्रत्यक्षवदनुमानादीनामपि अगौणत्वमनुमंतव्यं प्रतिनियतस्वविषयव्यवस्थायां परापेक्षाविरहात् । यथैव हि प्रत्यक्षं साक्षात्स्वार्थ परिच्छित्तौ नानुमानाद्यपेक्षं तथानुमानमनुमेयनिणीतौ न प्रत्यक्षापेक्षमुत्प्रेक्षते प्रत्यक्षस्य धर्मिहेतुदृष्टांतग्रहणमात्रे पर्यवसितत्वात् । नापि शाब्दं शब्दप्रतिपाद्येऽर्थे प्रत्यक्षमनुमानं चापेक्षते तयोः शब्दश्रवणमात्रे शब्दार्थसंबंधानुमात्रे व्यापारात् । नत्वापत्तिः प्रत्यक्षमनुमानमागमं चापेक्षते अभावोपमानवत् । तस्याश्च प्रत्यक्षादिप्रमाणप्रमितार्थाविनाभाविन्यदृष्टेऽर्थे निर्णयनिबंध त्वात् । प्रत्यक्षादीनामापत्त्युत्थापक पदार्थनिश्चयमात्रे व्यावृत्तत्वात् । नचापमानं प्रत्यक्षादीन्यपेक्षते तस्योपमेयेऽर्थे निश्चयकारणे प्रत्यक्षादि निरपेक्षत्वात् । प्रत्यक्षादेः सादृश्यप्रतिपत्तिमात्रेऽनधिकारात् । नचाभावप्रमाणं प्रत्यक्षादिसापेक्षं निषेध्याधारवस्तुग्रहण तस्य सामर्थ्यात् । परंपरयानुमानादीनां प्रत्यक्षपूर्वकत्वं प्रत्यक्षस्याप्यनुमानादिपूर्वकत्वं दुःशक्यं परिहंत । कथं चायं प्रत्यक्ष प्रमाणं व्यवस्थापयेत् स्वत एवेति चेत् किमात्मसबंधि सर्वसंबंधि वा ? प्रथमकल्पनायां न सकलदेशकालपुरुषपरिषत्प्रत्यक्षं प्रमाणं सिद्धयेत् । द्वितीयकल्पनायामपि न स्वप्रत्यक्षात्सकलपरप्रत्यक्षाणां प्रामाण्यं साधयितुमीश: तेषामनींद्रियत्वात् कादिप्रत्यक्षागोचरत्वात् । यदि पुनः सकलपुरुषप्रत्यक्षाणि स्वस्मिन् स्वस्मिन् विषये स्वतः प्रामाण्यमनुभवंति इति तदा कुतस्तत्सिद्धिः । विवादाध्यासितानि सकलदेशकालवर्तिपुरुषप्रत्यक्षाणि स्वतः प्रामाण्यमापद्यते प्रत्यक्षत्वात् यद्यत्प्रत्यक्षं तत्तत्स्वतः प्रामाण्यमापद्यमानं सिद्धं यथा मत्प्रत्यक्षं प्रत्यक्षाणि च विवादाध्यासितानि तस्मात्स्वतः प्रामाण्यमापद्यते सकलप्रत्यक्षाणां स्वतःप्रामण्यसाधने सिद्धमनुमानं प्रत्यक्षत्वेन स्वभावहेतुना प्रत्यक्षस्य स्वतः प्रामाण्यसाधनात् । शिशुपात्वेन वनस्पतेः वृक्षत्वसाधनवत् । प्रतिपाद्यबुद्ध्या तथानुमानवचनाददोष इति चेत् ? प्रतिपाद्यबुद्धि प्रतिपद्य अप्रतिपद्य वा तयानुमानप्रयोगः स्यात् ? न तावदप्रतिपद्य अतिप्रसंगात् । प्रतिपद्य तबुद्धितयानुमानप्रयोगे कुतस्तत्प्रतिपत्तिः ? व्यवहारादिकार्यविशेषादिति चत् सिद्ध कार्यात्कारणानुमानं धूमात्पावकानुमानवत् । यदि पुनर्लोकव्यवहारात् प्रतिपद्यत एवानुमानं लोकायातकैः परलोकादेवानुमानस्य निराकरणात् तस्याभावादिति मतं तदापि कुत: परलोकाद्यभावप्रतिपत्तिः न तावत्प्रत्यक्षात् तस्य तदगोचरत्वात् नास्ति परलोकादिः अनुपलब्धः खपुष्पवदिति तदभावसाधनेऽनुपलब्धिलक्षणमनुमानमायातं । तदुक्तं धर्मकीर्तिना
प्रमाणेतरसामान्यस्थितरन्यधियोगतः । प्रमाणांतरसद्भावः प्रतिषेधाच कस्यचित् ॥ १ ॥ इति