________________
प्रमाणपरीक्षा। स्यादाकूतं भवर्ता यस्यात्मनोऽर्थे परिच्छित्तिः प्रादुर्भवति तस्य ज्ञानेन सोऽर्थः प्रतीयते न सर्वस्य ज्ञानेन सर्वोऽर्थः प्रत्यक्षः सर्वस्य प्रमातुः सर्वत्रार्थे परिच्छित्तेरसंभवात् इति तदपि स्वगृहमान्य मीमांसकानां कचिदर्थपरिच्छित्तेः प्रत्यक्षत्वाप्रत्यक्षत्वविकल्पानतिक्रमात् । सा हि न तावत्प्रत्यक्षा ज्ञानधर्मकत्वात् । कर्मवेनाप्रतीतिश्च करणज्ञानवत् । तस्याः कर्मत्वेनाप्रतीतावपि क्रियात्वेन प्रतीतेः । प्रत्यक्षत्वे करण ज्ञानस्य कर्मत्वेनाप्रतीयमानस्यापि करणत्वेन प्रतीयमानत्वात् । प्रत्यक्षत्त्वमस्तु करणत्वेन प्रतीयमानं करणज्ञानं करणमेव स्यात् । न प्रत्यक्ष कर्मलक्षणमिति चेत् तर्हि पदार्थपरिच्छित्तिरपि क्रियात्वेन प्रतिभासमाना क्रियेव स्यात् न प्रत्यक्षा कर्मत्वाभावादिति प्रतिपत्तव्यं । यदि पुनरर्थधर्मत्वादर्थपरिच्छित्तेः प्रत्यक्षतेष्यते तदा सार्थप्राकव्यमुच्यते । न चैतदर्थग्रहणविज्ञानस्य प्राकव्याभावे घटामटति अतिप्रसंगात् । न ह्यप्रकटे ऽर्थज्ञाने संतानांतरवर्तिनिकरस्य चिदर्थस्य प्राकव्यं घटते प्रमातुरात्मनः स्वयं प्रकाशमानस्य प्रत्यक्षस्यार्थ परिच्छेदकस्य प्राकाठ्यादर्थे प्राकव्यं परिच्छित्तिलक्षणं संलक्ष्यते । परिच्छित्तेः परिच्छेदकस्वरूपायाः कर्तृस्थयाः क्रियाया कर्तृधर्मत्वादुपचारादर्थधर्मस्ववचनात् परिच्छिद्यमानतारूपायाः परिच्छित्तेः कर्मस्थायाः क्रियाया एव परमार्थतोऽर्थधर्मत्वसिद्धः । करणज्ञानधर्मतानुच्छित्तेर्नेष्यते एव चक्षुषा रूपं पश्यति देवदत्त इत्यत्र चक्षुषः प्राकव्याभावेऽपि अर्थप्राकव्यं सुघटमेव लोकेऽतींद्रियस्यापि करणत्वसिद्धेः इति केचित् समभ्यमंसत मीमांसकाः, तेऽप्यंधसर्पविलप्रवेशन्यायेन स्याद्वादिमतमेवानुप्रविशति, स्याद्वादिभिरपि स्वार्थपरिच्छेदकस्य प्रत्यक्षस्यात्मनः कर्तृसाधनज्ञानशब्देनाभिधानात् । स्वार्थज्ञानपरिणतस्यात्मन एव स्वतंत्रस्य ज्ञानत्वोपपत्तेः, स हि जानातीति ज्ञानमिति व्यपदिश्यते । तद्धर्मस्तु परिच्छित्तिः फलज्ञानं कथंचित्प्रमाणादिन्नमभिधीयते । यत्तु परोक्षमतींद्रियतया करणज्ञानं परैरुक्तं तदपि स्याद्वादिभिर्भावेंद्रियतया करणमुपपयोगलक्षणं प्रोच्यते 'लब्ध्युपयोगी भावेंद्रियं । इति वचनात् । तत्रार्थग्रहणशक्तिर्लब्धिः । भर्थग्रहणव्यापार उपयोगः इति व्याख्यानात् केवलं तस्य कथंचिदात्मनोंऽनांतरभावादात्मतया प्रत्यक्षवोपपत्तेः अप्रत्यक्षतकांतो निरस्यते इति प्रातीतिकं परीक्षकैरनुमंतव्यं । ये तु मन्यते नात्मा प्रत्यक्षः कर्मत्वेनाप्रतीयमानत्वात् करणज्ञानवदिति तेषां फलज्ञानहेतोर्व्यभिचारः कर्मत्वेनाप्रतीयमानस्यापि फलज्ञानस्य प्राभाकरैः प्रत्यक्षत्ववचनात् । तस्य क्रियात्वेन प्रतिभासमानात् प्रत्यक्षत्वे प्रमातुरप्यात्मनः कर्तृत्वेन प्रति भासमानत्वात् प्रत्यक्षत्वमस्तु । तच्च फलज्ञानं-आत्मनोऽर्थातरभूतमनर्थातरभूतमुभयं वा ! न तावत्स वार्थातरभूतमनर्थातरभूतं वा मतांतरप्रवेशानुषंगात् । नाप्युभयं पक्षद्वयनिगदितदूषणानुषक्तेः । कथंचिदनीतरत्वे तु फलज्ञानादात्मनः कथंचिप्रत्यक्षत्वमनिवार्य प्रत्यक्षादभिन्नस्य कथंचिदप्रत्यक्षत्वैकांतविरोधात् । एतेनाप्रत्यक्ष एवात्मेति प्रभाकरमतमपास्तं । यस्य तु करणज्ञानवत्फलज्ञानमपि परोक्षं पुरुषः प्रत्यक्ष इति मतं तस्यापि पुरुषात्प्रत्यक्षात् कथंचिदभिन्नस्य फलज्ञानस्य करणज्ञानस्य च प्रत्यक्षतापत्तिः कथंचित्कथमपाक्रियते ! ततो न भट्टमतमपि विचारणां प्रांचति इति स्वव्यवसायात्मकं सम्यग्ज्ञानं, अर्थपरिच्छित्तिनिमित्तत्वात् आत्मवदिति व्यवतिष्टते । नेत्रालोकादिभिर्व्यभिचारः साधनस्येति न मंतव्यं तेषामुपचारतोऽर्थ परिच्छित्तिनिमित्तत्ववचनात्, परमार्थतः प्रमातुः प्रमाणस्य च तन्निमित्तत्वघटनात् ।
अत्रापरः कपिलमतानुसारी प्राह-न सम्यग्ज्ञानं स्वव्यवसायात्मकं, अचेतनत्वात् घटादिवत् न तच्चेत नमनित्यत्वात् । तद्वदनित्यं चोत्पत्तिनिमित्तत्वात् विद्युदादिवत् । यत्तु स्वसंवेद्यं तच्चेतनं नित्यमनुत्पत्तिधर्मकं च सिद्धं यथा पुरुषतत्त्वमिति सोऽपि न न्यायवेदी व्यभिचारिसाधनाभिधानात् । उत्पत्तिमत्त्वं हि तावदनित्यतां व्यभिचरति निर्वाणस्यानंतस्याप्युत्पत्तिमत्त्वात् । तथैवानित्यत्वमचेतनत्वं व्यभिचरति पुरुषभोगस्य कादाचित्कत्वस्य बुद्ध्यध्यवासतार्थापेक्षस्य चेतनत्वेऽप्यनित्यत्वसमर्थनात् । अचेतनत्वं तु सम्यग्ज्ञानस्याशुद्धमेव तस्मादचेतनाद्विवेकख्यातिविरोधात् । चेतनसंसर्गाच्चेतनं ज्ञानमित्यपि वात शरीरादेरपि चेतनत्वसंगात । ज्ञानस्य चेतनसंसर्गो विशिष्ट इति चेत् स कोऽन्यः कथंचित्तादात्म्यात्। ततश्चेतनात्मकमेव ज्ञानमनुमंतन्य. मित्यचेतनमसिद्धं ।