________________
सनातनजैनग्रंथमालायांतद्रूपत्वात् । तथा सकलविचारातिक्रांततया किमसौ विचारगोचरा अविचारगोचरा वा स्यात् ? प्रथमकल्पनायां सकलविचारातिक्रांततया विचारानतिक्रांतत्वाभ्युपगमव्याघातः । द्वितीयकल्पनायां न सकलविचारातिक्रांतता व्यवतिष्ठते सकलविचारातिक्रांततायामपि तस्यास्तया व्यवस्थाने सर्वथैकानेकरूपताया अपि व्यवस्थानप्रसंगान् । तस्मात्सत्स्वभावैवाविद्याभ्युपगंतव्या विद्याइत् । तथा च विद्याऽविद्याद्वैतप्रसिद्धेः कुतः परमब्रह्मणोऽनुमानासिद्धिः ।। एतेनोपनिषद्वाक्यात्परमपुरुषसिद्धिः प्रत्याख्याता । सर्व वै खल्विदं ब्रह्मत्यादिवाक्यस्य परमात्मनोंऽथांतरभावे द्वैतप्रसक्तेरविशेषात् । तस्यानाद्यविद्यात्मकत्वेऽपि पूर्वोदितदूषणप्रसंगात् ततो न परमपुरुषाद्वैतसिद्धिः स्वतः परतो वा येन सम्यग्ज्ञानं स्वव्यवसायात्मकमेव न पुनरर्थव्यवसायात्मकं-अर्थाभावादिति वदन् अवधेयवचनः स्यात् । .
यत्तु स्वप्नज्ञानं स्वव्यवसायात्मकमेवेत्युक्तं तदपि न संगतं तस्य साक्षात्परंपरया वार्थव्यवसायात्मकत्वाघटनात् । द्विविधो हि स्वप्नः सत्योऽसत्यश्च तत्र सत्यो देवताकृतः स्यात् धर्माधर्मकृतो वा कस्यचित्साक्षाव्यवसायात्मकः प्रसिद्धः स्वप्नदशायां यद्देशकालाकारतयार्थः प्रतिपन्नः पुनर्जागृद्दशायामपि तद्देश
यवसीयमानत्वात् । कश्चित्सत्यः स्वप्नः परंपरयार्थ-व्यवसायी स्वप्नाध्यायनिगदितार्थप्रापकत्वात् । तदुक्तं
यस्तु पश्यति रोज्यंते राजानं कुजरं यं ।
सुवर्ण वृषभं गां च कुटंब तस्य वर्धते ॥ १॥ इति कुटुंबवर्धनाविनाभाविनः स्वप्ने राजादिदर्शनस्य कथमनिश्चापकता न स्यात् ? पावकाविनाभाविधूमदर्शनवत । दृष्टार्थाव्यवसायात्मकत्वान्न स्वप्नबोधोऽर्थव्यवसायी इति वचने लैंगिकोऽपि बोधोऽर्थव्यवसायी माभूत । तत एव तद्वत् । अनुमानबाधोऽनुमितार्थव्यवसायी संभवतीति वचने स्वप्नागमगम्या
सायी स्वप्नबोधोऽपि कथं नाभ्यनुज्ञायते ? | कदाचिदृव्यभिचारदर्शनान्नैवमभ्युपगमः कर्तुं सुशक्य इति चन्न देशकालाकारविशेषं यथार्थागमोदितमपेक्ष्यमाणस्य क्वचित्कदाचित्कथंचिद्व्यभिचाराभावात् । तदपेक्षाविकलस्तु न समीचीनः स्वप्नः तस्य स्वप्नाभासत्वान् । प्रतिपत्तुरपराधाच व्यभिचारः संभाव्यते न पुनरनपराधात् यथा चाधूमः धूमबुद्ध्या प्रतिपद्यमानस्य ततः पावकानुमानं न्यभिचारीति प्रतिपत्तुरेवापराधो न धूमस्य धीमद्भिरभिधीयते । तथैवास्वप्नं स्वप्नबुद्ध्याध्यवस्य ततस्तद्विषयाध्यवसायो न व्यभिचरतीति न स्वप्नागमस्यापराधः प्रतिपत्तरेवापराधात् । यः पुनरसत्यः स्वप्नः पित्ताशुद्रेकजनितः स किमर्थसामान्य व्यभिचरति अर्थविशेषं वा ? न तावदर्थसामान्यं देशकालाकारविशेषाणामेव व्यभिचारात् सर्वत्र सर्वदा सर्वथार्थसामान्यस्य सद्भावात् । तदभावेऽर्थविशेषषु संशयविपर्यासस्वप्नायथार्थज्ञानानामनुत्पत्तेः न हि किंचिद् ज्ञानं सत्तामात्रं व्यभिचरति. तस्यानुत्पत्तिप्रसक्तेः ततोऽसत्यस्वप्नस्याप्यर्थसामान्यव्यवसायात्मकत्वासद्धेः न किंचिद् ज्ञ.नमव्यवसायात्मकं । विशेषं तु यत एव व्यभिचरति तत एव असत्यः कथमन्यथा सत्येतरव्य. वस्थितिः स्यात् ? तस्याः स्वार्थविशेषप्राप्त्यप्राप्तिनिमित्तत्वादित्यलं प्रसंगेन स्वव्यवसायात्मकत्ववत् सम्यग्ज्ञानस्यार्थव्यवसायात्मकत्वप्रसिद्धेः ।
अत्रापरः प्राह-सम्यग्ज्ञानमर्थव्यवसायात्मकमेव न स्वव्यवसायात्मकं स्वात्मनि क्रियाविरोधात् एकस्य ज्ञानस्यानेकाकारानुपपत्तेः । न हि ज्ञानमेकमाकारं कर्मतामापन्नं व्यवस्यति कर्मात्मनाकारेणेति वक्तुं यक्तं ताभ्यां कर्मकरणाकाराभ्यां ज्ञानस्याभेदे भेदप्रसंगात् । न हि भिन्नाभ्यां ताभ्यामभिन्नमेकं नाम अतिप्रसंगात् । तयोर्वाकारया नादभेदे भेदप्रसंगात् नयभिन्नादभिन्नयोर्भेदःसंभाव्यते अतिप्रसंगात् । एवं ताभ्यां विज्ञानस्य भेदोपगमे न विज्ञानमात्मनात्मानं व्यवस्यति परात्मना परात्मन एव व्यवसायात् तौ चाकारौ यदि ज्ञानस्यात्मानौ तदा ज्ञानं व्यवस्यति वा न वा ? प्रथमपक्षे किमेकेनाकारांतरेण द्वाभ्यां वाऽकारांतराभ्यां तत्तो व्यवस्येत । न तावदेकेनाकारांतरेण विरोधात्। द्वाम्यां व्यवस्यति इति चेत् तयोरप्याकारांतरयोर्ज्ञानादभेदो भेदो वा स्यात्
स्वप्नांते इति पाठांतरं । २ अर्थव्यवसायः पाठांतरं ।