________________
.
५०
सनातनजनप्रथमालायोअष्टशती-इति स्वोक्तपरिच्छेदविहितेयमाप्तमीमांसा सर्वज्ञविशेषपरीक्षानिःश्रेयसकामिनां । अभव्यानां तदनुपयोगात् । तत्त्वेतरपरीक्षा प्रति भव्यानामेव हि नियताधिकृतिः ॥ ११४ ॥
श्रीबर्द्धमानमकलंकमानंद्यवंद्य
पादारविंदयुगलं प्रणिपत्य मूर्धा भव्यकलोकनयनं परिपालयंतंस्याद्वादवम परिणौमि समंतभद्रं ॥ १ ॥
इत्यष्टशती समाप्ता।
जयति जयति क्लेशावेशप्रपंचहिमांशुमान्
विहतविषमैकांतध्वांतप्रमाणनयांशुमान् । यतिपतिरजो यस्याधृष्टान्मतांबुनिधेलवान्
स्वमतमतयस्ती. नाना परे समुपासते ॥ ११५॥ वृत्तिः--यस्य भट्टारकस्य मतांबुधेरागमोदधेलवान् कणान् अधृष्टानखरीकृतान् परे नाना तीर्थ्याः प्रवादिनः सुगतादयः स्वमते मतिर्येषां ते स्वमतमतयः कृतात्मबुद्धयः समुपासते सेवंते सोऽजो जातिजरामरणरहितो यतिपतिः प्रधानस्वामी जयति त्रैलोक्यस्वामित्वं करोति बाह्याभ्यंतरशत्रून् निहत्य जयति लोके। पुनरपि किंविशिष्टः ? क्लेशस्य दुःखस्य आवेशः कदर्थना तस्य प्रपंचो विस्तारः स एव हिमं प्रालेयः तस्यांशुमानादित्यः । एकांत एव ध्वांतं तमः विषमं च तदेकांतध्वांतं च विषमैकांतध्वांतं प्रमाणं च नयाश्च प्रमाणनया उक्तलक्षणा विहतं निराकृतं विषमैकांतध्वांतं यैस्ते तथाभूतास्ते च ते प्रमाणनयाश्च त एवांशवः किरणास्ते विद्यते यस्य स तथाभूत इति यतिपतेर्विशेषणं ॥॥ ११५॥
श्रीमत्समंतभद्राचार्यस्य त्रिभुवनलब्धजयाताकस्य प्रमाणनयचक्षुषः स्याद्वादशरीरस्य देवागमाख्या-कतेः संक्षेपभूतं विवरणं कृतं श्रुतविस्मरणशीलेन वसुनंदिना जडमतिनाऽऽत्मोपकाराय ।
समंतभद्रदेवाय परमार्थविकल्पिने। समंतभद्रदेवाय नमोऽस्तु परमात्मने ॥ १॥ सुखाय जायते लोके वसुनंदिसमागमः । तस्मात् निषेव्यतां भव्यैर्वसुनंदिसमागमः ॥२॥
इति श्रीवसुनंद्याचार्यकृता देवागमवृतिः समाप्ताः ।
समाप्तोऽयं ग्रंथः। IMARARAS
१ नैतत्पद्यस्थाष्टशत्युपलब्धा ।