________________
२२
सनातनजैनग्रंथमालायांविवक्षा चाविवक्षा च विशेष्येऽनंतधामणि ।
सतो विशेषणस्यात्र नासतस्तैस्तदर्थिभिः ॥ ३५ ॥ वृत्तिः-सतो विद्यमानस्य विशेषणस्यास्तित्वादेविवक्षा, चाविवक्षा च । नासतो नाविद्यमानस्य क्रियते । कैस्तदर्थिभिर्विवक्षाप्रयोजनवद्भिः । अत्रकस्मिन् । कुतः ? लोकप्रसिद्धमेतत् ।
कस्यचिद्भेदः संवृतिकल्पितोऽन्यस्याभेदः संवृतिकल्पित इत्येतां दुरागमवासनाजनितां विप्रतिपत्ति निराकर्तुमाह
अष्टशती-विधिप्रतिषेधधर्माणां सतामेव वित्रत्रक्षेतराभ्यां योगस्तदर्थिभिः क्रियेत अन्यथा अर्थनिष्पमेरभावात् उपचारमात्रं तु स्यात् । नचाऽग्निर्माणवक इत्युपचारात्पाकादावुपयुज्यते । तदेकैकशः परस्परव्यावृत्तयोऽपि परिणामाविशेषाः ॥ ३५ ॥
प्रमाणगोचरौ संतो भेदाभेदौ न संवृती।
तावेकत्राविरुद्धौ ते गुणमुख्यविवक्षया ॥ ३६॥ वृत्तिः-भेदाभेदौ प्रमाणगोचरौ-प्रमाणविषयौ संतौ-भवंतौ संवृतिरूपावपरमार्थो न प्रमाणविषयत्वात् । अतस्तवागेम तावेकत्रकस्मिन् धर्मिणि न विरुद्धौ । गुणविवक्षया अप्रधानविवक्षया । मुख्याविवक्षया प्रधानविवक्षया । दृश्यते च लोके प्रधानाप्रधानविवक्षा यथाऽनुदरा कन्येत्यादि ॥ ३६॥
नित्यत्वैकांतं निराकर्तुकाम आह- .
अष्टशनी-प्रमाणमविसंवादिज्ञानमनधिगतार्थाधिगमलक्षणत्वात् । तदेवं सति भेदमभेदं वा नान्यो ऽन्यरहितं विषयीकरोति । न हि बहिरंतर्वा स्वलक्षणं सामान्यलक्षणं वा तथैवोपलभामहे यथैकांतवादिभिराम्नायते। सूक्ष्मस्थूलाकाराणां स्थूलसूक्ष्मस्वभावव्यतिरेकेण प्रत्यक्षादावप्रतिभासनात् तत्र स्वभावांतरस्य प्राधान्यविवक्षायां-आकारांतरस्य गुणभावः स्यात् । घटोऽयं परिमाणको रूपादयो वेति ॥ ३६ ।।
. इति आप्तमीमांसाभाष्ये द्वितीयः परिच्छेदः ।
नित्यत्वैकांतपक्षेऽपि रिक्रिया नोपपद्यते ।
मागेव कारकाभावः क्व प्रमाणं क्व तत्फलम् ॥ ३७॥ वृत्तिः-उक्तपक्षदोषभयान्नित्यत्वकांतपक्ष आश्रीयते तत्रापि सतो भावस्यांतरावाप्तिर्विक्रिया सा नोपपद्यते न घटत इत्यर्थः । अत एव कारणात् कारकाणि कर्बादीनि तेषामभावः शून्यता। प्रागेव पूर्वमेव । तस्मिन्नभाव कारकविशेषप्रमाणवस्तुयाथात्म्यप्रतिपादक क तस्मिन् किंतु न कचिदपि । तदभावे क. प्रमाणफलमुपक्षाहानोपानादिकम् ? ॥ ३७॥ .
माभूद्विक्रिया व्यंग्यव्यंजकभावो भविष्यत्यत आह
अष्टशती-सदसदैकत्वपृथक्त्वैकांतप्रतिषेधानंतरं नित्यत्वैकांतप्रतिक्षपः । पूर्वापरस्त्रभावपरिहारावाप्तिलक्षणामर्थक्रियां कौटस्थ्येऽपि बुवाणः कथमनुन्मत्तः ? कारकज्ञापकहेतुन्यापारासंभवात् । परिणामविवधिविस्थाविकाराणां स्वभावपर्यायत्वात् । तदेतद्विनाशोत्पत्तिनिवारणमबुद्धिपूर्वकं प्रत्यक्षादिविरोधात् क्षणिकैकांतवत् ।। ३७ ॥
प्रमाणकारकैद्यक्तं व्यक्तं चेदिद्रियार्थवत् । ते च नित्ये विकार्य किं साधोस्ते शासनादहिः ॥ ३८॥