________________
' न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते अनुविद्धमिवाभाति सर्वे शब्दे प्रतिष्ठितं ॥ इति । __श्रीभर्तृहरिविदुषः प्रोफेसरोपाधिविभूषितश्रीमत्पाठकप्रमुखविद्वद्भिः समयश्च ६५० तमखीष्टाब्दासने ऽवसितः। ___किं च चीनदेशनिवासी कश्चित् हुऐनसंगाभिधःपुरुषः ६२९ तमे खीष्टाब्दे विविधदेशसंदोहं विलोकयन् भ्रमन् भारतेऽयासीत् अवात्सीच्च ६.३५ तमखीष्टाब्दपर्यंत भारते, तेनापि स्वप्रवासोल्लेखे विलिखितः। यत् “संप्रति व्याकरणशास्त्रवैदुष्ये भर्तृहरेविदुषो महती विश्रुतिः” अतो निश्चीयते श्रीमद्विद्यानंदिप्रभुः ६५० तमस्त्रीष्टाब्दानंतरमभूत् ॥
स्वरचिताष्टसहस्त्यभिधै महति ग्रंथे श्रीमद्विद्यानंदिप्रभुणा प्रख्यातवेदांतिविद्वत्कुमारिलभट्टस्य भट्टपदेनोल्लेखःकृतः प्रत्याख्यातश्च पदे २ तत्सिद्धांतः । कुमारिलभट्टसमयश्च ७०० तमस्त्रीष्टाब्दात् ७६० तमखीष्टाब्दपर्यंतं विनिर्णीतः अतस्ततोप्युनुमीयते विभुर्विद्यानंदी तत्समकालीनस्तदचिरकालानंतरं वा सम• जनीति।
सुरेश्वरेत्यपराभिधा मंडनमिश्रस्यैवासीदिति चिद्विलासकृतशंकरदिग्विजयतो विज्ञायते । सच सुरेश्वरोंतेवास्यासीत् प्रथमशंकराचार्यस्येति नियतमेव । आद्यशंकराचार्यस्य कालश्च ७६० तमखीष्टाब्दात् ८३८ तमस्त्रीष्टाब्दपर्यंत निश्चितःअतः सुरेश्वरस्य मंडनमिश्रस्य वायमेवकालइति मंतव्यं । मंडनमिश्रविहितोऽस्ति कश्चिद्वृहदारण्यकाभिधोग्रंथस्तत्तृतीयाध्यायात्समुद्धृताः किलेमे निम्नलिखितश्लोकाः श्रीम. द्विद्यानंदिप्रभुणा प्रत्याख्यातश्च मिश्रसिद्धातः । तदुक्तं वृहदारण्यवार्तिके--
आत्मापि सदिदं ब्रह्म मोहात्पारोक्ष्यदूषितं । ब्रह्मापि स तथैवात्मा सद्वितीयतयेक्ष्यते ॥ १॥ . आत्मा ब्रह्मेति पारोक्ष्यसद्वितीयत्वबाधनात् । पुमर्थे निश्चितं शास्त्रमिति सिद्धं समीहितं ॥ २ ॥ स्वत्पक्ष्ये बहुकल्प्यं स्यात्सर्व ज्ञानविरोधि च । कल्प्या विद्यैव मत्पक्षे साचानुभवसंश्रये ॥ ३ ॥
इति कश्चित् सोऽपि न प्रेक्षावान् । ब्रह्मा विद्यावदिष्टं चेन्ननु दोषो महानयं निरवद्ये च विद्याया आनर्थक्यं प्रसज्यते ॥ १ ॥
अमुना प्रमाणबलेनापि श्रीमद्विद्यानंदिसमयो मंडनमिश्रसन्निकृष्टे अर्थात् ८३८ तमखीष्टाब्दपर्यंतमेव निश्चेतुं पार्यते । __अष्टसहस्रीपत्रपरीक्षयोः श्रीमद्विद्यानंदिना विश्रुतबौद्धविद्वद्धर्मकीर्तेरप्युल्लेखः कृतः अजनिष्ट यंखल्व प्राज्ञः सप्ततमायां शताब्दौ । उल्लेखश्च स हीत्थंयदुक्तं धर्मकीर्तिना
अतद्रूपं परावृत्तवस्तुमात्रप्रवदेनात् । सामान्यविषयं प्रोक्तं लिंगं भेदाप्रतिष्ठिते ॥ १॥
अर्थोपयोगोऽपि पुनः स्मार्त शब्दानुयोजनं । अक्षधीयद्यपेक्ष्येत सोर्थो व्यवहितो भवेत् ॥२॥ किं चाष्टसहस्त्यां दिङ्नागोद्योतकरप्रभाकर (प्रज्ञाकर ) शवरस्वामिप्रभृतिविदुषामपि समु. लेखः कृतः श्रीमद्विद्यानंदिप्रभुणा।।
आदिपुराणप्रणेत्रा भगवजिनसेनाचार्येणापि स्वकरविलसितादिपुराणे पात्रकेसर्यभिधया श्रीमद्विद्यानंद्युलिखितः तद्यथा--
भट्टाकलंकश्रीपालपात्रकेसरिणां गुणाः । विदुषां हृदयारूढा हारायंते ऽतिनिर्मलाः ॥ १ भावना यदि वाक्याौँ नियोगो नति का प्रमा। तावुभौ यदि वाक्यार्थी हतौ भट्टप्रभाकरी ॥
कार्येर्थे चोदनाज्ञानं खरूपे किं न तत्प्रमा। द्वयोश्चद्धंत तौ नष्टौ भवेदांतवादिनी ॥ अष्टसहस्री। २ विलोक्यतां बाम्बेरायल एशियाटिकसोसाइटीवाल्युमअष्टादशमपृष्ठे २३३ । पत्रपरीक्षायो धर्मकीर्तेः कीर्तिपदनोलेखः
-
.
काय