________________
सनातन जैनग्रंथमालायां
मतांतर प्रतिशेषार्थं वा । यदाह - साधर्म्यवैधर्म्ययोरन्यतरेणार्थगतावुभयप्रतिपादनं पक्षादिवचनं वा निग्रहस्थानमिति न तद्युक्तं साधनसामर्थ्येन विपक्षव्यावृत्तिलक्षणन पक्षं प्रसाधयतः केवलं वचनाधिक्योपलंभछलेन पराजयाधिकरणप्राप्तिः स्वयं निराकृतपक्षेण प्रतिपक्षिणा लक्षणीयेति प्रतिज्ञानुयोगिशास्त्रादिष्वपि नाभिधीयेत विशेषाभावात् । यत्सत्तत्सर्वं क्षणिकं यथा घटः संश्च शब्दः इति त्रिलक्षणं हे - तुमभिधाय यदि समर्थयते कथमित्र संधामतिशेते तावत्तार्थप्रतिपत्तौ समर्थनं वा निगमनादिकं यतः पराजयो न भवेत् । सत्त्वमात्रेण नश्वरत्वसिद्धौ - उत्पत्तिमत्त्व कृतकत्वादिवचनं अतिरिक्तविशेषणोपादानात् कृतकत्वप्रयत्नानंतरीयकत्वादिषु च कप्रत्ययातिरेकादसाधनांगवचनं पराजयाय प्रभवेत् । क्वचित्पक्षधर्मप्रदर्शनं संश्चशब्दः इत्यविगानात् त्रिलक्षणवचनसमर्थनं च, असाधनांगवचनं अपजयप्राप्तिरिति व्याहतं । तथान्यस्यापि प्रस्तुतेतरस्य वादिनोक्तावितरस्य स्वपक्षमसाधयता विजयासंभवात् निग्रहस्थानमयुक्तं । साधनांगस्यावचनं, प्रतिवादिनाप्यदोषस्योद्भावनं दोषस्यानुद्भवनं वा - अनेन प्रत्युक्तं । विजिगीषुणोभयं कर्तव्यं स्वपरपक्षसाधनदूषणं । अतोऽन्यतरेणासिद्धानैकांतिकवचनेऽपि जल्पापरिसमाप्तिः ॥ ७ ॥ निराकृतावस्थापितविपक्षस्त्रपक्षयोरेव जयेतरव्यवस्था नान्यथेति दर्शयन्नुभयमाह -
कुशलाकुशलं कर्म परलोकच न कचित् । . एकांतग्रहरषु नाथ स्वरवैरिषु ॥ ८ ॥
वृत्तिः- कुशलं सुखनिमित्तं, अकुशलं दुःखहेतुकं, कर्म मिथ्यात्वासंयमकषाययोगकारणसंचितपुद्गलप्रचयः । कुशलं चाकुशलं च कुशलाकुशलं कर्म शुभाशुभमित्यर्थः । परलोको भवांतरगतिरन्यजन्म | चशब्दोऽनुक्तसमुच्चयार्थः । तेन तत्कलबंधमोक्षेहलोकादयो गृह्यन्ते । नशब्दः प्रतिषेधार्थः । क्वचित् केषुचित् । एक एवांता धर्मः एकांतः तस्य ग्रहणमभ्युपगमो ग्रहः एकांतग्रहः तस्मिन् तेन वा रक्ता रंजिताः, प्रविष्टा भक्ता एकांतग्रहरक्ताः । अथवा ग्रह इव ग्रहः तेन व्याकुलिताः तेषु एकांतग्रहरक्तेषु । नाथ ! स्वामिन्! श्रद्धावचनमेतत् । स्वश्वात्मा च परे चान्ये च स्वपरे तेषां वैरिणः शत्रवः तेषु स्वपरवैरिषु । किमुक्तं भवति?—हे नाथ ! अर्हन् ! एकांतग्रहरक्तेषु स्वारवैरिषु केषु चिदपि शुभाशुभकर्म नास्ति । परलोकादयश्च न सन्ति । एकांततस्त्रग्रहणात् । यद्यपि पक्षान्तर्भूतो हेतुस्तथापि पृथग्द्रष्टव्यः । अंतर्व्याप्तिसंग्रहात् । न केवलमेकान्तवादे कुशलाकुशलादिकं कर्म न घटते किं तु प्रमाणप्रमेयपक्षविपक्ष हेतु हेत्वाभास दूषणाभासादिकमपि सर्वथार्थक्रियायोगात् ॥ ८ ॥
सामान्येनैकांतवाद्यभ्युपगतस्य वाचं प्रदर्येदानीं दूषयितुमनाः स्वल्पोऽपि शत्रुनपेक्षणीय इति न्यायमनुसरन्प्रथमतरं तावद्भावैकांतं भस्मसात्कर्तुमाह
अष्टशती - कर्मफलसबंधपरलोकादिकं - एकांतवादिनां प्रायेणेष्टं तदनेकांत प्रतिषेधेन बाध्यते' ततोऽनुष्ठानमभिमतव्याघातकृत्, सदसन्नित्यानित्याद्येकांतेषु कस्यचित् कुतश्चित् कदाचित् कचित्प्रादुर्भावासंभवात् ।
सर्वात्मा सर्वस्य भूतावेव जन्मविरुद्धं - अपि तु सर्वथाऽभावेऽपि व्यलीकप्रतिमासानामनुपरमप्रसंगात् । न केवलं स्वभावनैरात्म्य एवायं दोषः किं त्वंतरुभयत्र वा निरन्वयसत्त्वेऽपि न, कार्यकालमप्राप्नुवतः कारणत्वानुपपत्तेश्चिरतरांतीतवत् । सत्यभवतः स्वयमेव नियमेन पश्चाद्भवतस्तत्कार्यत्वं विरुद्धं कालांतरेऽपि किं न स्यात् तदभावाविशेषात् समनंतरवत् । समर्थे सत्यभवतः पुनः कालांतरभाविनस्तत्प्रभावाभ्युपगमे कथमक्षणिकेऽर्थक्रियानुपपत्तिः ! तत्सत्त्वासत्त्वयोरविशेषात् । कारणसामर्थ्यंीपेक्षिणः कालनियमकल्पनायां - अंचलपक्षेऽपि समानः परिहारः । क्षणवर्तिन एकस्मात्कारणस्वभावमभेदयतां विचित्रकर्मणामुत्पत्तौ कूटस्थेपि किं न स्यात् कार्योत्पत्तिः । कथमत्रोत्पत्तिर्नाम ? तत्र समानः पर्यनुयोगः, सदसतोरनुत्पत्तेः, निष्पन्नखपुष्पवत् । सतः
१ नित्यपक्षेऽपि ॥