________________
માયાવતાર
सकलावरणमुक्तात्म केवलं यत् प्रकाशते । प्रत्यक्षं सकलात्मसततप्रतिभासनम् ॥२७॥ प्रमाणस्य फलं साक्षादज्ञानविनिवर्त्तनम् । केवलस्य सुखोपेक्षे शेषस्यादानहानधीः ॥२८॥ अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम् ।। एकदेशविशिष्टाऽर्थो नयस्य विषयो मतः ॥२९॥ नयानामेकनिष्ठानां प्रवृत्ते: श्रुतवम॑नि । सम्पूर्णार्थविनिश्शायि स्याद्वादश्रुतमुच्यते ॥३०॥ प्रमाता स्वान्यनिर्भासी कर्ता भोक्ता निवृत्तिमान् । स्वसंवेदसंसिद्धो जीव: क्षित्याद्यनात्मकः ॥३१॥ प्रमाणादिव्यवस्थेयमनादिनिधनात्मिका । सर्वसंव्यवहर्तृणां प्रसिद्धापि प्रकीर्तिता ॥३२॥