________________
ललितविस्तरा भाग-3
एव=असदारम्भाद्-उक्तरूपात् तस्य वा, या निवृत्तिः = := उपरम:, तद्रूप एव, न पुनरन्यो बहुलोकप्रसिद्धः, अयं=शास्त्रविहितो द्रव्यस्तवः, स्याद् =भवेत्।
२०
आह- 'कथमसौ न भावस्तवः ? औचित्यप्रवृत्तिरूपत्वात् साधुधर्म्मवद्' इत्याशङ्क्याह- औचित्यप्रवृत्तिरूपत्वेऽपि=श्रावकावस्थायोग्यव्यापारस्वभावतायामपि किं पुनस्तदभावे, अल्पभावत्वात् = तुच्छशुभपरिणामत्वात्, द्रव्यस्तवः पूजासत्कारौ, एवं तर्हि अल्पभावत्वादेवाकिञ्चित्करोऽयं गृहिणामित्याशङ्क्याहगुणाय च = उपकाराय च, अयं = द्रव्यस्तवः, कथमित्याह कूपोदाहरणेन = अवटज्ञातेन ।
इह चैव साधनप्रयोगो, 'गुणकरम् अधिकारिणः किञ्चित्सदोषमपि पूजादि, विशिष्टशुभभावहेतुत्वात्, यद् यद् विशिष्टशुभभावहेतुभूतं तद् गुणकरं दृष्टं यथा कूपखननं; विशिष्टशुभभावहेतुश्च यतनया पूजादि, ततो गुणकरमिति', कूपखननपक्षे शुभभावः तृष्णादिव्युदासेनानन्दाद्यवाप्तिरिति । इदमुक्तं भवतियथा कूपखननं श्रमतृष्णाकर्दमोपलेपादिदोषदुष्टमपि जलोत्पत्तावनन्तरोक्तदोषानपोह्य स्वोपकाराय परोपकाराय वा यथाकालं भवति, एवं पूजादिकमप्यारम्भदोषमपोह्य शुभाध्यवसायोत्पादनेनाशुभकर्म्मनिर्ज्जरणपुण्यबन्धकारणं भवतीति ।
दृष्टान्तशुद्ध्यर्थमाह
'न च ' = नैव, 'एतदपि ' = कूपोदाहरणमपि, 'अनीदृशम् ' = उदाहरणीयबहुगुणद्रव्यस्तवविसदृशं यथाकथञ्चित् खननप्रवृत्त्या, 'इष्टफलसिद्धये', इष्टफलम् आरम्भिणां द्रव्यस्तवस्य बहुगुणत्वज्ञापनं, तत्सिद्धये भवतीति, दान्तिकेन वैधर्म्यात्, यथा तु स्यात् तथाह- 'किन्त्वाज्ञामृतयुक्तमेव ' = आशैवामृतं परमस्वास्थ्यकारित्वादाज्ञामृतं, तद्युक्तमेव = तत्संबद्धमेव; तथाहि, महत्यां पिपासाद्यापदि कूपखननात्सुखतरान्योपायेन विमलजलासंभवे निश्चितस्वादुशीतस्वच्छजलायां भूमौ अन्योपायपरिहारेण कूपखननमुचितं, तस्यैव तदानीं बहुगुणत्वाद्; इत्थमेव च खातशास्त्रकाराज्ञा, कुत एतदित्याह - 'स्थाने' = द्रव्यस्तवादौ कूपखननादिके च उपकारिणि, 'विधिप्रवृत्तेः=औचित्यप्रवृत्तेः, अन्यथा ततोऽप्यपायभावात् ।
પંજિકાર્થ :
:
औचित्यमेव ततोऽप्यपायभावात् ।। सोयित्यने ४= श्रावना द्रव्यस्तवमां रहेला सोयित्यने ४, वणी, विशेषथी लावन इस्तां=स्पष्ट इरतां, हे छे તે આ પ્રમાણે
द्रव्यस्तव खा छे=पूनन-सत्कार छे, तेथी शुं ? = द्रव्यस्तव पूजन-सत्कार छे तेथी शुं प्राप्त थाय ? એથી કહે છે અને તેદ્રવ્યસ્તવ, ભાવસ્તવનું અંગ=શુદ્ધ સાધુભાવનું કારણ, ઇષ્ટ છે=અભિમત છે, કયા કારણથી ? એથી કહે છે=શુદ્ધ ભાવસાધુનું કારણ હોય તે જ દ્રવ્યસ્તવ છે અન્ય નહિ તે પ્રમાણે કયા કારણથી છે ? એથી કહે છે – તેના અન્યનું=ભાવસ્તવના અકારણનું, અપ્રધાનપણું હોવાથી=અનાદરણીયપણું હોવાથી, ભાવસ્તવનું અંગ જ દ્રવ્યસ્તવ ઇષ્ટ છે, કયા કારણથી ? એથી
*****
-
-