________________
૧૭૧
પુષ્પરવરદી સૂત્ર સમીહિતની સિદ્ધિ નથી, આ=અજ્ઞાતગુણવાળા ચિંતામણિમાં યત્ન થતો નથી તેથી ફળની પ્રાપ્તિ નથી એ, પ્રેક્ષાપૂર્વકારીઓને પ્રગટ છે, ગોયોનિવર્ગનો=બળદ જેવા સામાન્ય લોકનો, એકાંત અવિષય છે. निका:एतद्भावनायैवाह
शुभं प्रशस्तम्, एतत् पुनः पुनः श्रुतधर्मवृद्ध्याशंसालक्षणम्, अध्यवसानं परिणामः, अत्यर्थम् अतीव, कीदृगित्याह-शालिबीजारोपणवत्-शालिबीजस्य पुनः पुनः निक्षेपणमिव, शालिहेतुः-शालिफलनिमित्तम्, एतदेव भावयति-दृष्टा-उपलब्धा, हिः यस्माद्, एवं-श्रुतधर्मवृद्धिप्रार्थनान्यायेन, पौनःपुन्येन शालिबीजारोपणस्य वृद्धः, तद्वृद्धिः=शालिवृद्धिः, एवं-शालिवृद्धिप्रकारेण, इहापि-श्रुतस्तवे, अतः=आशंसापौनःपुन्याद्, इष्टवृद्धिः श्रुतवृद्धिरिति। अथ शालिबीजारोपणदृष्टान्ताक्षिप्तं सहकारिकारणं जलमपि प्रतिपादयत्राहएवं अनन्तरोक्तप्रकारेण विवेकग्रहणं, विवेकेन-सम्यगर्थविचारेण, ग्रहणं-स्वीकारः श्रुतस्य, विवेकस्य वा ग्रहणं, तत्किमित्याह- अत्र-श्रुतशालिवृद्धौ, जलम् अम्भः।
अथ विवेकमेव स्तुवन्नाह
अतिगम्भीरोदारः, अतिगम्भीरः-प्रभूतश्रुतावरणक्षयोपशमलभ्यत्वादत्यनुत्तानः, उदारश्च सकलसुखलाभसाधकत्वाद्, 'एषः'-विवेकरूपः, 'आशयः'-परिणामः, 'अत एव' विवेकादेव, न तु सूत्रमात्रादपि, 'संवेगामृतास्वादनं', संवेगो-धर्माद्यनुरागो, यदुक्तम्'तथ्ये धर्म ध्वस्तहिंसाप्रबन्धे, देवे रागद्वेषमोहादिमुक्ते। साधौ सर्वग्रन्थसन्दर्भहीने, संवेगोऽसौ निश्चलो योऽनुरागः ।।१।।' स एव अमृतं सुधा, तस्य आस्वादनम् अनुभवः। ननु क्रियैव फलदा, न तु ज्ञानं, यथोक्तं"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम्। यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेत्।।१।।'
इति, किं विवेकग्रहणेन? इत्याशक्य व्यतिरेकतोऽर्थान्तरोपन्यासेनाह-न-नैव अविज्ञातगुणे-अनिर्णीतज्वराद्युपशमस्वभावे, चिन्तामणौ-चिन्तारत्ने, यत्नः तदुचितपूजाद्यनुष्ठानलक्षणः, यथा हि चिन्तामणी ज्ञातगुण एव यत्नस्तथा श्रुतेऽपीति ज्ञानपूर्विकैव फलवती क्रियेति।
ननु चिन्तामणिश्चिन्तामणित्वादेव समीहितफलः स्यात्, किं तत्रोक्तयत्नेन? इत्याहन च=नैव, अन्यथा अज्ञातगुणत्वेन यत्नाभावे, अतोऽपि-चिन्तामणेरपि, आस्तां श्रुतज्ञानात् समीहितसिद्धिः प्रार्थितपरमैश्वर्यादिसिद्धिः, इदमेव भावयन्नाह- प्रकटमिदं प्रत्यक्षमेतत्, प्रेक्षापूर्वकारिणाम् बुद्धिमतां