________________
લોગરસ સૂત્ર
૧૧૯ માટે હીનકુલાદિનું પ્રાર્થના મોહ છે; કેમ કે અતëતુકપણું છે, ઋદ્ધિના અભિવૃંગથી ધર્મનું પ્રાર્થના પણ મોહ છે; કેમ કે અતહેતુકપણું જ છે, તીર્થકરમાં પણ આ=પ્રાર્થન, આ રીતે જ પ્રતિષિદ્ધ છે. lrs:
'न निदाने'त्यादि, न-नैव, निदानं नितरां दायते-लूयते सम्यग्दर्शनप्रपञ्चबहलमूलजालो ज्ञानादिविषयविशुद्धविनयविधिसमुद्धरस्कन्धबन्यो विहितावदातदानादिभेदप्रभेदशाखोपशाखाखचितो निरतिशयसुरनरभवप्रभवसुखसंपत्तिप्रसूनाकीर्णोऽनभ्यीकृतनिखिलव्यसनव्याकुलशिवालयशर्मफलोल्बणो धर्मकल्पतरुरनेनसुराद्याशंसनपरिणामपरशुनेति निदानम्, 'एतद्'-आरोग्यबोधिलाभादिप्रार्थनम्, कुत इत्याह- तल्लक्षणायोगात्-निदानलक्षणाघटनात्, निदानलक्षणमेव भावयन्नाह- 'द्वेषाभिष्वङ्गमोहगर्भ हि तत्', द्वेषो मत्सरः, अभिष्वङ्गो विषयानुरागो, मोहः अज्ञानं, ततस्ते द्वेषाभिष्वङ्गमोहाः, गर्भाः अन्तरङ्गकारणं यस्य तत् तथा, हिः यस्मात्, तत्=निदानम्, कुत इत्याह- तथा द्वेषादिगर्भतया, तन्त्रप्रसिद्धत्वात् निदानस्यागमे रूढत्वात्। रागद्वेषगर्भयोर्निदानयोः सम्भूत्यग्निशर्मादिषु प्रसिद्धत्वेन तल्लक्षणस्य सुबोधत्वात्, निर्देशमनादृत्य मोहगर्भनिदानलक्षणमाह
धर्माय-धर्मनिमित्तमित्यर्थः, हीनकुलादिप्रार्थनं, हीनं नीचं विभवधनादिभिः, यत् कुलम् अन्वयः, आदिशब्दात् कुरूपत्वदुर्भगत्वाऽनादेयत्वादिग्रहः भवान्तरे तेषां प्रार्थनम् आशंसनम्, किमित्याह- मोहः= मोहगर्भ निदानम्, कुत इत्याह- अतहेतुकत्वाद=अविद्यमानास्ते हीनकुलादयो हेतवो यस्य स तथा, तद्भावस्तत्त्वं, तस्मात्, अहीनकुलादिभावभाजो हि भगवन्त इव(एव) अविकलधर्मभाजनं भव्या भवितुमर्हन्ति नेतरे इति, उक्तं च'हीनं कुलं बान्धववर्जितत्वं, दरिद्रतां वा जिनधर्मसिद्ध्यै। प्रयाचमानस्य विशुद्धवृत्तेः, संसारहेतुर्गदितं निदानम्।।' प्रकारान्तरेणापीदमाह-ऋद्ध्यभिष्वङ्गतः पुरन्दरचक्रवर्त्यादिविभूत्यनुरागेण, धर्मप्रार्थनापि='नूनं धाराधनमन्तरेणेयं विभूतिर्न भविष्यतीत्यशंसया धर्माशंसनमपि, किं पुनहींनकुलादिप्रार्थनेति 'अपि'शब्दार्थः, किमित्याह मोहः उक्तरूपः, कुत इत्याह- अतद्धेतुकत्वाद=अविद्यमान उपसर्जनवृत्त्याऽशंसितो धर्मो हेतुर्यस्याः सा तथा, तद्भावस्तत्त्वं तस्मादेव, अनुपादेयतापरिणामेनैवोपहतत्वेन धर्मस्य ततोऽभिलषितऋद्ध्यसिद्धेः, यत एवं ततः तीर्थकरेऽपि-अष्टमहाप्रातिहार्यपूजोपचारभाजिप्राणिविशेषे, किं पुनरन्यत्र पुरन्दरादौ विषयभूते? एतत् प्रार्थनम्, एवमेव ऋद्ध्यभिष्वङ्गेणैव, 'यथायं भुवनाद्भुतभूतविभूतिभाजनं भुवनैकप्रभुः प्रभूतभक्तिभरनिर्भरामरनिकरनिरन्तरनिषेव्यमाणचरणो भगवांस्तीर्थकरो वर्तते, तथाहमप्यमुतस्तपःप्रभृतितोऽनुष्ठानाद् भूयासमित्येवंरूपं, न पुनर्यनिरभिष्वङ्गचेतोवृत्त'र्द्धर्मादेशोऽनेकसत्त्वहितो निरुपमसुखसञ्जनकोऽचिन्त्यचिन्तामणिकल्पो भगवान्, अहमपि तथा स्यामित्येवंरूपं प्रतिषिद्धं निवारितं दशाश्रुतस्कन्धादौ, तदुक्तं