SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ લલિતવિસ્તરા ભાગ-૨ રાજાના ક્થાશ્રવણના વિષયવાળા શુશ્રુષાદિ જેવા અન્ય અર્થવાળા જ શુશ્રુષાદિ થાય છે, हि = भे કારણથી, વિષયની તૃષાનું અપહારી જ જ્ઞાન વિશિષ્ટ કર્મના ક્ષયોપશમથી થનારું છે, અન્ય નહિ; કેમ કે અભક્ષ્ય અને અસ્પર્શનીય ન્યાયથી અજ્ઞાનપણું છે અને આ=સમ્યજ્ઞાન, યોદિત શરણના અભાવમાં નથી જ અને તે=શરણ, પૂર્વની જેમ=અભય આદિની જેમ, ભગવાનથી છે, मेथी शरराने खाये छे से शराने हेनारा भगवान छे. ॥१८॥ ४० पंरिडा : तर्हि न संभविष्यन्त्येव तत्त्वगोचरतामन्तरेण शुश्रूषादय इत्याशङ्क्याह संभवन्ति तु न न संभवन्ति, तुः पूर्वेभ्य एषां विशेषणार्थः, तदेव दर्शयति- वस्त्वन्तरोपायतया वस्त्वन्तरंतत्त्वविविदिषापेक्षया पूजाभिलाषादि, तद् उपायः - कारणं येषां ते तथा, तद्भावस्तत्ता, तया । अत एवाहतद्विविदिषामन्तरेण तत्त्वजिज्ञासां विना, व्यवच्छेद्यमाह- न पुनः = न तु, स्वार्थसाधकत्वेन भावसारा:परमार्थरूपाः । ननु कथं न स्वार्थसाधका एते ? इत्याह- अन्येषां = वस्त्वन्तरोपायतया प्रवृत्तानां, प्रबोधविप्रकर्षेण = तत्त्वपरिज्ञानदूरभावेन हेतुना, प्रबलमोहनिद्रोपेतत्वाद् = बलिष्ठमिथ्यात्वमोहस्वापावष्टब्धत्वात्। परमतेनाप्येतत्समर्थयन्नाह उक्तं च=निरूपितं च, एतत् = तदन्येभ्यस्तत्त्वज्ञानाभावलक्षणं वस्तु, अन्यैरपि = अस्मदपेक्षया भिन्नजातीयैरपि, किं पुनरस्माभिः, कैरित्याह- अध्यात्मचिन्तकैः = आत्मतत्त्वगवेषकैः, कुत इत्याह यद्-यस्मात्कारणाद् आह=उक्तवान्, अवधूताचार्यो = योगिमार्गप्रणायकः, उक्तमेव दर्शयति- न= नैव, अप्रत्ययानुग्रहं सदाशिवकृतोपकारम्, अन्तरेण=विना, तत्त्वशुश्रूषादयः उक्तरूपाः, कुत इत्याह- उदकपयोऽमृतकल्पज्ञानाजनकत्वात्, उदकं - जलं, पयः-क्षीरं, अमृतं सुधा, तत्कल्पानि, विषयतृष्णापहारित्वेन श्रुतचिन्ताभावनारूपाणि ज्ञानानि तदजनकत्वात्, तत्त्वगोचरा एव हि शुश्रूषादयो मृदुमध्याधिकमात्रावस्था एवंरूपज्ञानजनका इति । स एव इतरानवजानन्नाह- लोकसिद्धास्तु = सामान्येन लोकप्रतिष्ठिताः, तुः = पुनः शुश्रूषादयः, सुप्तनृपाख्यानगोचरा इव= यथा सुप्तस्य- शय्यागतस्य नृपस्य राज्ञो निद्रालाभार्थम् 'आख्यानविषया' शुश्रूषादयोऽन्यार्था एव भवन्ति, न त्वाख्यानपरिज्ञानार्थाः । 'इति' अवधूताचार्योक्तिसमाप्त्यर्थः । सर्वतात्पर्यमाह - विषयतृडपहार्येव हि ज्ञानम् = (विषाकार) विषयाभिलाषनिवर्त्तकमेव, हि:- यस्मात्कारणात्, ज्ञानं तत्त्वबोधः, कीदृशमित्याह - विशिष्टकर्म्मक्षयोपशमजं विशिष्टात्- मिथ्यात्वमोहविषयात् क्षयोपशमाज्जातम् । अनभिमतप्रतिषेधमाह - न= नैव, अन्यद् = विषयतृष्णानपहारि, ज्ञानमिति गम्यते, कुत इत्याहअभक्ष्यास्पर्शनीयन्यायेन प्राग्व्याख्यातेन, अज्ञानत्वात् - तत्त्वचिन्तायां ज्ञानाभावरूपत्वात्, यदि नामैवं ततः किमित्याह - न च = नैव, इदं ज्ञानं, यथोदितशरणाभावे = प्रागुदितविविदिषाविरहलक्षणे, एवमपि किमित्याहतच्च=शरणं, पूर्व्ववद्=अभयादिधर्म्मवद्, 'भगवद्भ्य' इति । । १८ ।।
SR No.022464
Book TitleLalit Vistara Part 02
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages278
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy