SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ४८ ચૈત્યવંદનની પૂર્વની ભૂમિકા પ્રાસંગિક કથનનો વિસ્તાર કર્યો તે વિસ્તારથી સયું. પૂર્વમાં ઉદિત એવા અધિકારીઓને જ પૂર્વમાં કહેવાયેલા એવા એતદ્ધહુમાની આદિ સ્વરૂપવાળા અધિકારી જીવોને જ, અપક્ષપાતથી જ ઈતરનો નિરાસ કરીને=અધિકારી જીવોથી ઈતર એવા અનધિકારી જીવોનો પક્ષપાત વગર જ ત્યાગ કરીને, પ્રસ્તુત કહેવાય છે=પ્રસ્તુત એવા ચૈત્યવંદન અનુષ્ઠાનની વિધિ કહેવાય છે. __'इति' ग्रंथारश्री रेस प्रतिज्ञानी समाप्ति माटे छे. fes:__'लोकसंज्ञेति गतानुगतिकलक्षणा लोकहेरिः, 'लोकोत्तरयानमिति लोकोत्तरा प्रवृत्तिः, पुरुषमात्रप्रवृत्तिरपि हिताप्त्युपायः स्याद्, न वचनोक्त एव पन्थाः, इत्याशङ्क्याह-'नचानुभवेत्यादि, अयमभिप्रायः-प्राक् स्वयमेव दृष्टफले कृष्यादौ तदुपायपूर्वकम्, आप्तोपदिष्टोपायपूर्वकं चादृष्टफले निधानखननादौ कर्मणि, प्रवृत्तस्य स्वाभिलषितफलसिद्धिरवश्यं भवति, नान्यथा, अतोऽतीन्द्रियफले चैत्यवन्दने फलं प्रति स्वानुभवाभावे पुरुषमात्रप्रवृत्त्याश्रयणान विवक्षितफलसिद्धिः, व्यभिचारसम्भवात्, अतः शास्त्रोपदेशात् तत्र प्रवर्तितव्यमिति। 'अपि च' इति दूषणान्तरसमुच्चये, यदृच्छाप्रवृत्त्या सम्यक्त्य वन्दनविधेः लाघवापादनेन लघूकरणेन, शिष्टप्रवृत्तिनिरोधतः पूज्यपूजारूपशिष्टाचारपरिहारात्, तद्विघात एव-उपायान्तरादपि संभवन्त्यास्तथेष्टफलसिद्धेर्विष्कम्भ एव, यथोक्तम्-'प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः' इति। आह-ननु गतानुगतिकरूपश्चैत्यवन्दनविधिरपवादस्तहि स्यादित्याशङ्क्याह-'अपवादोऽपी'त्यादि, उत्सर्गभेद एवेति-उक्तविशेषणोऽपवाद उत्सर्गस्थानापन्नत्वेनोत्सर्गफलहेतुरित्युत्सर्गविशेष एवेति, एतदङ्गीकरणमपि' इति, एतस्य क्षुद्रसत्त्वविजृम्भितस्य, अपवादतया अङ्गीकरणमपि आदरणमपि, किं पुनरनङ्गीकरणमवलम्बनं न भवतीति 'अपि' शब्दार्थः, 'कुशकाशावलम्बनमिति' कुशाश्च काशाश्च कुशकाशाः तेषामवलम्बनं, आश्रयणम् अनालम्बनमेव अपुष्टालम्बनत्वादिति। __ 'दर्शनीयं ततोऽस्याधिकत्वमिति' दर्शनीयं-दर्शयितव्यं, परेषां स्वयं वा द्रष्टव्यं ततः तन्त्रान्तरस्थितेः, अस्य-प्रकृततन्त्रस्य, अधिकत्वं अधिकभावः, कषादिशुद्धजीवादितत्त्वाभिधायकत्वात्, 'व्याप्तीतरविभाग' इति, व्याप्तिश्च सर्वतन्त्रानुगमो, अस्य सर्वनयमतानुरोधित्वात् इतरा-चाव्याप्तिः, तन्त्रान्तराणामेकनयरूपत्वाद् 'व्याप्तीतरे' तयोः विभागो विशेषः, इह चेतराशब्दस्य पुंवद्भावो 'वृत्तिमात्रे सर्वादीनां पुंवद्भावः' इति वचनात्, ‘उत्तमनिदर्शनेषु' इति-आज्ञानुसारप्रवृत्तमहापुरुषदृष्टान्तेषु।। ___ अस्तु नामायं प्रवचनगाम्भीर्यनिरूपणादिरुत्सर्गापवादस्वरूपपरिज्ञानहेतुः श्रेयोमार्गः, परं ज्वरहरतक्षकचूडारत्नालङ्कारोपदेशवदशक्यानुष्ठानो भविष्यतीत्याशक्याह'व्यवस्थितश्च' इत्यादि, व्यवस्थितश्च-प्रतिष्ठितश्च, स्वयमेव महापुरुषैरपुनर्बन्धकादिभिरनुष्ठितत्वात्,
SR No.022463
Book TitleLalit Vistara Part 01
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy