SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ૧૭૮ લલિતવિસ્તારા ભાગ-૧ 'खडुकानां' सम्यक् शिक्षाऽनर्हाणां व्यत्ययोपलब्धेः' प्रकृतविपरीतगुणदर्शनाद्, व्यतिरेकमाह, 'अन्यथा'प्रकृतगुणवैपरीत्याभावे, 'खडुङ्काभावः' खडुङ्कानामुक्तलक्षणानामभावः, स्वलक्षणस्यैव अभावात् न च न सन्ति ते, सर्वेषामविगानात्।। अस्तु तीर्थकरत्वहेतुबोधिलाभे भगवतामन्यासमानता, इतरावस्थायां तु कथमित्याशङ्क्य प्रतिवस्तूपमया साधयितुमाह न-नैव, 'अशुद्धमपि' मलग्रस्तमपि, 'जात्यरत्न' पद्मरागादि, 'समान' तुल्यम्, 'अजात्यरत्नेन'= काचादिना, शुद्धं सत् समानं न भवत्येवेति 'अपि'शब्दार्थः, 'न चेतरद्' इति, 'इतरद्' अजात्यरत्न, 'इतरेण'-जात्यरत्नेन, कुत इत्याह 'तथा'-अशुद्धावस्थायामसमानतायां सत्यां 'संस्कारयोगे' शुद्ध्युपायक्षारमृत्पुटपाकसंयोगे, 'उत्तरकालमपि' किं पुनः पूर्वकालमिति 'अपे'रर्थः, 'तभेदोपपत्ते', तयोः जात्याजात्यरत्नयोः ('भेदोपपत्तेः-)' असादृश्यघटनात्, तद्भेदोपपत्तिमेव भावयति 'न हि काचः पद्मरागीभवति' संस्कार-योगेऽपीति गम्यते। हेतुमाह 'जात्यनुच्छेदेन'-काचादिस्वभावानुल्लङ्घनेन, 'गुणप्रकर्षभावात्'गुणानां कान्त्यादीनां वृद्धिभावात्। इदमेव तन्त्रयुक्त्या साधयितुमाह 'इत्थं च'-इत्थमेवजात्यनुच्छेदेनैव, चकारस्याव-धारणार्थत्वात् ‘एतत्'-गुणप्रकर्षभावलक्षणं वस्तु, कुत इत्याह 'एवम्'-अनेन जात्यनुच्छेदेन गुणप्रकर्षभाव-लक्षणप्रकारेण, 'प्रत्येकबुद्धादिवचनप्रामाण्यात्'-प्रत्येकबुद्धबुद्धबोधितस्वयंबुद्धादीनां पृथग्भिन्नस्वरूपाणां 'वचनानि'=निरूपका ध्वनयः, तेषां 'प्रामाण्यम्'-आप्तोपदिष्टत्वेनाभिधेयार्थाव्यभिचारिभावः, तस्मात्। अस्यैव व्यतिरेकेण समर्थनार्थमाह 'तभेदानुपपत्तेः' इह 'अन्यथा' शब्दाध्यारोपाद् ‘अन्यथा तभेदानुपपत्ते'रिति योज्यम्। तद्भेदानुपपत्तिमेव भावयति, 'न' नैव, 'तुल्य-भाजनतायां' तुल्ययोग्यतायां, 'तभेदः' प्रत्येक-बुद्धादिभेदो, 'न्याय्यो' युक्तिसंगतः, 'इति'। एवं सत्त्वभेदसिद्धौ मुक्तावपि तद्भेदप्रसङ्ग इति पराशङ्कापरिहारायाह न च-नैव, 'अत एव'-इह सत्त्वभेदसिद्धेरेव हेतुतः, 'मुक्तावपि' मोक्षेऽपि, न केवलमिह, 'विशेषो'भेदः, तत्रापि सत्त्वमात्रभावात्। कुत इत्याह 'कृत्स्नकर्मक्षयकार्यत्वात्'-ज्ञानावरणादिनिखिलकर्मक्षयानन्तरभावित्वान्मुक्तेः, एवमपि किम् इत्याह 'तस्य च' कृत्स्नकर्मक्षयस्य, 'अविशिष्टत्वात्' सर्वमुक्तानामेकादृशत्वात्। तदेवार्थान्तरदर्शनेन भावयति, 'दृष्टश्च'=उपलब्धश्च, 'दरिद्रेश्वरयोरपि' पुरुषविशेषयोरपि, किं पुनरन्ययोरविशिष्टयोरिति अपि' शब्दार्थः, 'अविशिष्टः' एकरूपो 'मृत्युः' प्राणोपरमः, कुत इत्याह 'आयुःक्षयाविशेषात्'-'आयुःक्षयस्य' प्राणोपरमकारणस्य, 'अविशेषाद्' अभेदात्, कारणविशेषपूर्वकश्च कार्यविशेष इति। तर्हि तयोः प्रागप्यविशेषो भविष्यतीत्याह 'न च'-'एतावता' मृत्योरविशेषेण, 'तयोः'= दरिद्रेश्वरयोः, 'प्रागपि'-मृत्युकालाद् ‘अविशेषः' उक्तरूपः, कुत इत्याह 'तदन्यहेतुविशेषात्', तस्माद्आयुःक्षयाद् अन्येये विभवसत्त्वासत्त्वादयो हेतवस्तैः, विशेषात्-विशिष्टीकरणात्। 'निदर्शनमात्रमेतदिति'
SR No.022463
Book TitleLalit Vistara Part 01
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy