________________
૧૦૬
નમુત્થણ અરિહંતાણ
शास्त्रयोगस्त्विह ज्ञेयो, यथाशक्त्यप्रमादिनः । श्राद्धस्य तीव्रबोधेन, वचसाऽविकलस्तथा ।।२।। शास्त्रसंदर्शितोपायस्तदतिक्रान्तगोचरः ।। शक्त्युद्रेकाद् विशेषेण सामर्थ्याख्योऽयमुत्तमः ।।३।। सिद्ध्याख्यपदसंप्राप्तिहेतुभेदा न तत्त्वतः । शास्त्रादेवावगम्यन्ते सर्वथैवेह योगिभिः ।।४।। सर्वथा तत्परिच्छेदात्साक्षात्कारित्वयोगतः । तत्सर्वज्ञत्वसंसिद्धेस्तदा सिद्धिपदाप्तितः ।।५।। न चैतदेवं यत् तस्मात्, प्रातिभज्ञानसंगतः । सामर्थ्ययोगोऽवाच्योऽस्ति, सर्वज्ञत्वादिसाधनम् ।।६।। द्विधाऽयं धर्मसंन्यासयोगसंन्याससंज्ञितः । क्षायोपशमिका धाः, योगाः कायादिकर्म तु ।।७।। द्वितीयापूर्वकरणे, प्रथमस्तात्त्विको भवेत् । आयोज्यकरणादूर्ध्वं, द्वितीय इति तद्विदः ।।८।। अतस्त्वयोगो योगानां, योगः पर उदाहतः । मोक्षयोजनभावेन, सर्वसंन्यासलक्षणः" ।।९।। इत्यादि (योगदृष्टिसमुच्चयः ३-११) तत्र 'नमोऽस्त्वद्भ्यः ' इत्यनेनेच्छायोगाभिधानम्, 'नमो जिनेभ्यो जितभयेभ्य' इत्यनेन तु वक्ष्यमाणेन शास्त्रयोगस्य, निर्विशेषेण सम्पूर्णनमोमात्राभिधानात्; विशेषप्रयोजनं चास्य स्वस्थान एव वक्ष्याम इति। तथा, 'इक्कोऽवि नमुक्कारो, जिणवरवसहस्स वद्धमाणस्स। संसारसागराओ, तारेइ नरं व नारिं वा।।१॥' इत्यनेन तु पर्यन्तवर्तिना सामर्थ्ययोगस्य, कारणे कार्योपचारात्, न संसारतरणं सामर्थ्ययोगमन्तरेणेति कृत्वा। .. __ आह-'अयं प्रातिभज्ञानसङ्गत' इत्युक्तं, तत्किमिदं प्रातिभं नाम? असदेतत्, मत्यादिपञ्चकातिरेकेणास्याश्रवणात्,' उच्यते-चतुर्ज्ञानप्रकर्षोत्तरकालभावि केवलज्ञानादधः तदुदये सवित्रालोककल्पमिति न मत्यादिपञ्चकातिरेकेणास्य श्रवणम्, अस्ति चैतद्ः अधिकृतावस्थोपपत्तेरिति, एतद्विशेष एव प्रातिभमिति कृतं विस्तरेण।१।