________________
东志末法末末未来未来走走来走走东未来卖东本末法末末法末末本东东本
जैनग्रन्थरत्नाकरे.
titkat
t tttttta
i
老老法本末法末法末本法未违法本法未来来来来走来走去去去去走走太太本本基本就生来来来来来来来来来来来来来
बुद्धचन्तरेण तद्बुद्धेः करणे चानवस्थितिः। नानादिसन्ततिर्युक्ता कर्मसन्तानतो विना ॥ ३१ ॥ अव्यापि च यदि ज्ञानमीश्वरस्य तदा कथम् ! सकृत्सर्वत्र कार्याणामुत्पत्तिर्घटते ततः ॥ ३२ ॥ पधेकत्र स्थितं देशे ज्ञानं सर्वत्र कार्यकृत् । तदा सर्वत्र कार्याणां सकृत्किन्न समुद्भवः ॥ ३३ ॥ कारणान्तरवैकल्यात्तथानुत्पत्तिरित्यपि । कार्याणामीश्वरज्ञानाहेतुकत्वं प्रसाधयेत् ॥ ३४ ॥ सर्वत्र सर्वदा तस्य व्यतिरेकाप्रसिद्धितः । अन्वयस्यापि सन्देहात्कार्य तद्धेतुकं कथम् ॥ ३५ ॥ एतेनैवेश्वरज्ञानव्यापिनित्यमपाकृतम् । तस्येशवत्सदाकार्यक्रमहेतुत्वहानितः ॥ ३६ ॥ अस्वसंविदितं ज्ञानमीश्वरस्य यदीष्यते । तदा सर्वज्ञता न स्यात्वज्ञानस्याप्रवेदनात् ॥ ३७ ॥ ज्ञानान्तरेण तद्वित्तौ तस्याप्यन्येन वेदनम् । वेदनेन भवेदेवमनवस्था महीयसी ॥ ३८ ॥ गत्वा सुदूरमप्येवं स्वसंविदितवेदने । इष्यमाणे महेशस्य प्रथमं तादृगस्तु वः ॥ ३९ ॥ तत्स्वार्थव्यवसायात्मज्ञानं भिन्नं महेश्वरात् । कथं तस्येति निर्देश्यमाकाशादिवदञ्जसा ॥ ४० ॥ समवायेन तस्यापि तद्भिन्नस्य कुतो गतिः । इहेदमिति विज्ञानादवाध्याद्व्यभिचारितम् ॥ ४१॥
*********
**
****
****************
*