________________
॥ अहम् ।। ॥ श्रीपरमात्मने नमः॥ ॥ श्रीगौतमस्वामिने नमः ॥
॥ आचार्यश्रीविजयनेमिसरिभगवद्भ्यो नमः ॥
॥ श्रीसूरिस्तवशतकम् ॥
प्रणम्य स्तम्भनाधीशं, स्तम्भतीर्थावतंसकम् । श्रीपाच सर्वसिद्धीनां, समागत्येकसाधनम् ॥ १ ॥ प्रणम्य श्रीमहावीरं, गणभृगौतमं प्रभुम् । त्रैलोक्यवन्दनीयांश्च, लोकेषु सर्वयोगिनः ॥ २ ॥ धन्यानां भव्यजीवाना-मवतंसन्त्यहर्निशम् । जगदुद्धारणैकस्य, यस्य पादनखाचिषः ॥ ३ ॥ जातिर्यस्योत्तमा लोके, कुलं सर्वजनाधिकम् । जगविभूषणं रूपं, बीर्य भुवनविश्रुतम् ॥ ४ ॥