________________
( १९) पञ्चाक्षा एव विज्ञेया मुक्त्वा तिर्यकशरीरिणः । एकन्द्रियादिभेदेन, तिर्यञ्चः पञ्चधा मताः॥११०॥ आद्याः पृथ्वीपयःतेजो- वरेण्युवनभेदतः । सूक्ष्माश्च बादराश्चैते, होन्द्रयाद्या अनेकधा।।१११॥ गभजेतरभेदेन, विधा च मनुजा मताः । भुवनपत्यादिभेदेन, देवताश्च चतुर्विधाः ॥११२॥ पर्याप्तेतरभेदेना-ऽमी सर्वे द्विविधा मताः। पर्याप्तिरात्मनः शक्ति- विशेषः सा चषड्विधा ११३ सर्वेऽमी ससमुद्घाताः, सलेश्याश्च सयोगिनः । यथार्हस्थानिनः प्रोक्ताः, सर्वभावप्रदर्शिभिः॥११४ वेदनादिसमुद्घाताः, सप्त शास्त्रे प्रकीर्तिताः । लेश्याःकृष्णा च नीला च, कापोता तैजसी तथा११५ पद्मा शुक्ला च योगास्तु, त्रय एव प्रकीर्तिता। मनोयोगो वचोयोगः, सत्यादिकश्चतुर्विधः ॥११६।।