________________
-
श्रीगुरुः शरणम् ।
यदानन्दलवेनैव जगदानन्दमश्नुते । तं वन्दे प्रत्यगात्मानमसङ्गं नन्दनन्दनम् ॥
ईश्वरकृपया समापत्किल मुद्रणमेतस्य जैनवार्तिकवृत्तिनामका. न्थस्य । अयं किल सामान्यलक्षण प्रत्यक्ष अनुमान शहनामकपरिच्छेद्र चतुष्टययुतः श्रीमज्जैनमतपोषकजैनधर्मावलम्बिशान्त्याचार्यविद्वद्वरेण वि. रचितः श्रीसिद्धसेनाचार्यकृतसूत्रागां व्याख्यानरूपः । तत्राचे परिच्छेदे सामान्यलक्षणाभिधे साधुकादशश्लोकरूपसूत्रैः नैयायिकसंमतसनिकर्षादिप्रमाणानां प्रामाण्यं खण्डयित्वा; ज्ञानस्यैव प्रामाण्यमुपवर्ण्य वेदस्य प्रामाण्यं निरस्य ईश्वरखण्डनादिकं च निरूपितम् । द्वितीयपरिच्छेदे च प्रमेयस्य वास्तविकभेदं निरस्य ज्ञानस्य भेदं प्रदोपमानाथापत्त्यनुपल ब्धिप्रमाणनि निरस्य सिद्धान्तो निरूपितः सार्द्धचतुर्विंशतिसूत्रः-। तृतीये परिच्छेदे च अनुमानस्वरूपं निरूप्य परार्थानुमानस्य वैयर्थ्य प्रतिपाद्यान्वयपक्षर्धमतादि यथायथं निरस्य हेत्वाभासाः सप्तदशसूत्रनिरूपिताः । चतुर्थे परिच्छेदे चागमलक्षणान्यभिधाय अन्यशास्त्रस्या. नृतत्वं प्रतिपादितम्___ यद्यपि जैनसिद्धान्तपरिदर्शका भूयांसो निबन्धा विराजन्ते तथापि जैन. वार्तिकवृत्तिस्सर्वानपि ग्रन्थानतिशेते इत्यत्र न केषांचिदपि विप्रतिपत्तिः । हंत यतः अस्मिन्नन्यशास्त्रीयतात्पर्यप्रदर्शनपूर्वकतन्निरसनेन सर्वेषामपि शास्त्राणामल्पैरवाक्षरैर्बालोऽपि तात्पर्यमभिज्ञातुमर्हेत्तस्य पठनेन । अस्मिन्ज्ञाते विचारिते च सति-न-केवलं जैननामपि त्वास्तिकानामपि चिन्तं समुल्लासमाप्नोत्ति