SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ घड्दशनसमुच्चयः सटीका सुखेन विशिष्टात्यन्तिको दुःखनिवृत्तिः पुरुषस्य मोक्ष इति ॥ एषां तर्कग्रन्था न्यायसूत्र-भाष्यन्यायवार्तिक-तात्पर्यटौकातात्पर्यपरिशुद्धि-न्यायालंकारवृत्तयः । क्रमेणाक्षपादवास्ययनो5 द्योतकरवाचस्पतिश्रीउदयनश्रीकण्ठाभयतिलकोपाध्यायविरचि.. ताः ५४ ० ० ० । भासर्वज्ञप्रणोते न्यायसारे ऽष्टादश टौकाः ।। तासु मुख्या टौका न्यायभूषणाख्या न्यायकलिका जयन्तरचिता न्यायकुसुमाञ्जलितर्कश्च ॥ . अथ तन्मतमुपसंहरवुत्तरं च मतमुपक्षिपनाह 10 नैयायिकमतस्यैष समासः कथितो जसा। सांख्याभिमतभावानामिदानीमयमुच्यते ॥३३॥ ___ एषो ऽनन्तरोदितो नैयायिकमतस्य समासः संक्षेपः कथित उक्नो ऽञ्जमा प्राग् सांख्याभिमतभावानां सांख्याः कापिलास्तेषामभिमता अभिष्टा भावा ये पञ्चविंशतितत्त्वादयः पदार्था15 स्तेषामयं समास इदानीमुच्यते ॥ इतिश्रीतपागणनभोगणदिनमणिश्रीदेवसुन्दरसूरिपदपद्मोपजीवीगुणरत्नसूरिविरचितायां तर्करहस्यदीपिकाभिधानायां षड्दर्शनसमुच्चयवृत्तौ नैयायिकमतस्वरूपप्रकटनो नाम द्वितीयो ऽधिकारः ॥
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy