________________
नैयायिकमतम्।
भवति, स्वप्रतिपत्तिवत्परप्रतिपत्तेर्जनने परार्थानुमानक्रमस्थापगमात् ॥ १० ॥
पञ्चावयवे वाक्ये प्रयोक्तव्ये तदन्यतमेनाप्यवयवेन होनं प्रयुञानस्य न्यूनं नाम निग्रहस्थानं भवति, प्रतिज्ञादीनां पशानामपि परप्रतिपत्तिजन्मन्युगयोगादिति ॥ ११ ॥ .. एकेनैव हेतनोदाहरणेन वा प्रतिपादिते ऽर्थ हेत्वन्तरमुदाहरणान्तरं वा वदतो ऽधिकं नाम निग्रहस्थानं भवति, निष्प्रयोजनाभिधानात् ॥ १२ ॥ ___ शब्दार्थयोः पुनर्वचनं पुनरुक्तं नाम निग्रहस्थानं भवति, अन्यत्रानुवादात् । शब्दपुनरुक्तं नाम, यत्र स एव शब्दः पुनरु- 10 चार्यते, यथानित्यः शब्दो ऽनित्यः शब्द इति । अर्थपुनरुक्तं तु, यत्र मो ऽर्थः प्रथममन्येन शब्देनोच्चार्यते पुनश्च पर्यायान्तरेणोचते, यथानित्यः शब्दो विनाशौ ध्वनिरिति । अनुवाद तु पौनरुक्त्यं न दोषो, यथा हेतुपदेशन प्रतिज्ञायाः पुनर्वचनं निगमनमिति ॥ १३ ॥
15 __पर्षदा विदितस्य वादिना त्रिरभिहितस्यापि यदप्रत्युच्चारणं, तदननुभाषणं नाम प्रतिवादिनो निग्रहस्थानं भवति । अप्रत्युच्चारयन् किमाश्रयं दूषणमभिदधीत ॥ १४ ॥
पर्षदा विज्ञातस्यापि वादिवाक्यार्थस्य प्रतिवादिनो यदज्ञानं, तदज्ञानं नाम निग्रहस्थानं भवति । अविदितोत्तरवि- 20 षयो हि किमुत्तरं ब्रूयात् । न चाननुभाषणमेवेदं ज्ञाते ऽपि वस्तुन्यनुभाषणासामर्थ्यदर्शनात् ॥ १५ ॥