________________
नैयायिकमतम् ।
10
त्मामान्यवहटो ऽपि नित्यो भवत्विति, स एवं ब्रुवाण: शब्दनित्यत्वप्रतिज्ञां जह्यात् । शब्दो ऽपि नित्य एव स्यात् । ततः प्रतिज्ञाहान्या पराजीयते ॥ १ ॥ ____ प्रतिज्ञार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साधनीयमभिदधतः प्रतिज्ञान्तरं नाम निग्रहस्थानं भवति । । 'अनित्यः शब्द ऐन्द्रियकत्वादित्युक्ते तथैव सामान्येन व्यभिचारे नोदिते यदि ब्रूयाद्युक्तं यत्सामान्यमैन्द्रियकं नित्यं तद्धि सर्वगतमसर्वगतस्तु शब्द इति । मो ऽयमनित्यः शब्द इति पूर्वप्रतिज्ञातः प्रतिज्ञान्तरमसर्वगतः शब्द इति प्रतिज्ञानानः प्रतिज्ञान्तरेण निग्टहीतो भवति ॥ २ ॥ ___ प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधो नाम निग्रहस्थानं भवति । गुणव्यतिरिक्त ट्रव्यं रूपादिभ्यो ऽर्थान्तरस्थानुपलब्धेरिति सो ऽयं प्रतिज्ञाहेवोर्विरोधः । यदि हि गुणव्यतिरिक्त द्रव्यं, न तहि रूपादिभ्यो ऽर्थान्तरस्थानुपश्चन्धिः । अथ रूपादिभ्यो ऽर्थान्तरस्थानुपलब्धिः, कथं गुणव्यतिरिकं द्रव्य- 13 मिति । तदयं प्रतिज्ञाविरुद्धवाभिधानात्पराजीयते ॥ ३॥ .
पक्षमाधने परेण दूषिते तदुद्धरणाशतया प्रतिज्ञामेव निहुवानस्य प्रतिज्ञासंन्यासो नाम निग्रहस्थानं भवति। अनित्यः शब्द ऐन्द्रियकवादित्युक्त तथैव सामान्येनानैकान्तिकतायामुगावितायां यदि ब्रूयात्क एवमाह अनित्यः शब्द इति प्रति- 20 ज्ञासंन्यासात्पराजितो भवति ॥ ४ ॥
अविशेषाभिहिते हेतौ प्रतिषिद्धे तद्विशेषणमभिदधतो