________________
नैयायिकमतम् ।
इति संकटे प्रस्तावे च सति च्छलादिभिरपि स्वपचस्थापनमनुमतम् । परविजये हि न. धर्मध्वंसादिदोषसंभवः । तस्मादरं छलादिभिरपि जयः ॥ सा वितण्डा त्वित्यादि । तुशब्दो ऽवधारणार्थो भिन्नक्रमश्च । सा तु सेव विजिगीषुकथैव प्रतिपचविवर्जिता वादिप्रयुक्तपचप्रतिपन्थी प्रतिवाद्युप - 5 न्यासः प्रतिपचस्तेन विवर्जिता रहिता प्रतिपक्षसाधना होनेत्यर्थः वितण्डोदाहृता । वैतण्डिको हि स्वाभ्युपगतपचमस्थापयन्यत्किं चिद्वादेन परोक्तमेव दूषयतीत्यर्थः ॥
अथ हेत्वाभासादितत्त्वत्रयखरूपं प्रकटयति । हेत्वाभासा असिग्राद्याञ्छलं कूपो नवोदकः । जातयो दूषणाभासाः पक्षादिर्दष्यते न यैः ॥ ३१ ॥
ह
10
श्रसिद्धाद्या श्रसिद्धविरुद्धानैकान्तिककालात्ययापदिष्टप्रकरसमाः पञ्च हेत्वाभासाः । तत्र पक्षधर्मत्वं यस्य नास्ति, सोऽसिद्धः । श्रनित्यः शब्दश्वानुषत्वादिति । १ ॥ विपचे सन्सपचे चासन् विरुद्धः । नित्यः शब्दः कार्यत्वादिति । २ ॥ पचादि- 15 त्रयवृत्तिरनैकान्तिकः । श्रनित्यः शब्दः प्रमेयत्वादिति । ३ ॥ हेतोः प्रयोगकालः प्रत्यचागमानुपहतपक्षपरिग्रहसमयस्तमतीत्यापदिष्टः प्रयुक्तः, प्रत्यक्षागमविरुद्धे पक्षे वर्तमान इत्यर्थः, हेतुः कालात्ययापदिष्टः । श्रनुष्णोऽग्निः कृतत्वात्, ब्राह्मणेन सुरा पेया द्रवद्रव्यत्वात् चौरवदिति । ४ ॥ स्वपक्षमिद्धाविव 20 परपचसिद्धावपि त्रिरूपो हेतुः प्रकरणसमः । प्रकरणे पढ़ें