________________
नैयाधिकमतम् ।
६१
निर्विकल्पकं, यथा प्रथमाचमन्निपातजं ज्ञानम् । संज्ञासंज्ञिसम्बन्धोल्लेखेन ज्ञानोत्पत्तिनिमित्तं सविकल्पकं, यथा देवदत्तोऽयं दण्डीत्यादि ॥ योगिप्रत्यचं तु देशकालस्वभावविप्रकृष्टार्थग्राहकम् । तद्द्द्विविधं युक्तानां प्रत्यचं वियुक्तानां च । तत्र समाध्यैकाय्यवतां योगधर्मेश्वरादिसहकृतादात्मान्तःकरणसंयोगादेव बाह्यार्थसंयोग- 5 निरपेक्षं यदशेषार्थंग्रहणं, तद्युक्रानां प्रत्यचम्। एतच्च निर्वि कल्पकमेव भवति, विकल्पतः समाध्यैकाय्यानुपपत्तेः । इदं चोत्कृष्टयोगिन एव विज्ञेयं, योगिमात्रस्य तदसंभवात् । श्रसमा - व्यवस्थायां योगिनामात्ममनो बाह्मेन्द्रियरूपाद्याश्रय चतुष्कसंयोगाद्रूपादोनां, श्रात्ममनःश्रोत्रत्रयसंयोगाच्छब्दस्य, श्रात्ममनोदय - 10 संयोगात्मुखादीनां च यद्ग्रहणं तद्वियुक्तानां प्रत्यक्षम् । तच्च निर्विकल्पकं सविकल्पकं च प्रतिपत्तव्यम् । विस्तरार्थिना तु न्यायसारटीका विलोकनौयेति ॥
9
श्रथानुमानलचणमाह “श्रनुमानं तु तत्पूर्वं चिविधं भवेत्पूर्ववच्छेषवच्च" इत्यादि । अत्र चैवशब्दौ पूर्ववदादीनामर्थबाहुल्य- 15 सूचकौ । तथाशब्दश्चकारार्थः समुच्चये । शेषं तु सूत्रं व्याख्यास्यते, सूत्रं त्विदं “तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतोदृष्टं च” इति । एके व्याख्यान्ति । श्रचैकस्य पूर्वकशब्दस्य सामान्यश्रुत्या लुप्तनिर्देशो द्रष्टव्यः । तत्पूर्वकमित्यत्र तच्छब्देन प्रत्यक्षं प्रमाणमभिसंबध्यते । तत्पूर्वकं प्रत्यचफलं लिङ्गज्ञान - 20 मित्यर्थः। तत्पूर्वकपूर्वकं लिङ्गिज्ञानम् । श्रयमत्र भावः । प्रत्यक्षाडूमादिज्ञानमुत्पद्यते, धूमादिज्ञानाच्च वयादिज्ञानमिति ।