________________
घड्दर्शनसमुच्चयः सटीक ।
मित्याशंक्याह । देवतातत्त्वभेदेनेति । देवा एव देवताः, खार्थऽत्र तस्प्रत्ययः । तत्त्वानि प्रमाणरुपपन्नाः। परमार्थसन्तोऽर्थाः । इन्छे देवतातत्त्वानि, तेषां भेदेन पार्थकोन। ततोऽयमत्रार्थः ।
देवतातत्त्वभेदेन यतो दर्शानानां षडेव मूलभेदा भवेयुस्ततः 5 षडेवात्र दर्शनानि वक्ष्यन्ते, न पुनरुत्तरभेदापेक्षयाधिका
नौति। एतेन प्राक्तनलोके सर्वशब्दग्रहणेऽपि षडेवात्र दर्गनानि वक्तुं प्रतिज्ञातानि सन्तौति ज्ञापितं द्रष्टव्यम् ॥ अथ षलां दर्शनानां नामान्याह
बौद्धं नैयायिकं सांख्यं जैनं वैशेषिकं तथा । 10 जैमिनीयं च नामानि दर्शनानाममून्यहो ॥३॥
बुद्धाः सुगतास्ते च सप्त भवन्ति । विपश्यौ १ शिखौ २ विश्वभूः ३ क्रकुच्छन्दः ४ काञ्चनः ५ काश्यपः ६ शाक्यसिंहचेति । तेषामिदं दर्शनं बौद्धम् ॥ न्यायं न्यायतर्कमक्षपादर्षिप्रणीतं ग्रन्थं विदन्त्यधीयते वेति नैयाथिकास्तेषामिदं 15 दर्शनं नैयायिकम् ॥ संख्यां प्रकृतिप्रभतितत्त्वपञ्चविंशतिरूपां विदन्यधीयते वा सांख्याः । यहा तालव्यादिरपि शांख्यध्वनिरस्तौति वृद्धवाम्बायः। तत्र शंखनामा कश्चिदाद्यः पुरुषविशेषस्तस्थापत्यं पौत्रादिरिति गर्गादित्वात् यञ्प्रत्यये भांख्या
स्तेषामिदं दर्शनं मांख्यं शांख्यं वा ॥ जिना ऋषभादयश्चत20 विशतिरईन्तस्तेषामिदं दर्शनं जैनम् । एतेन चतुर्विशतेरपि
ज़िनानामेकमेव दर्शनमजनिष्ट, न पुनस्तेषां मियो मतभेदः