________________
[प्रस्तावना]
मुक्तिपथप्रवृत्तेनाभ्युपगन्तव्यं, न ज्ञानमिति ॥ अन्यच्च । भवेद्युक्तो ज्ञानस्याभ्युपगमो, यदि ज्ञानस्य निश्चयः कर्तुं पार्यते। यावता स एव न पार्यते। तथाहि। सर्वेऽपि दर्शनिनः परस्परं भिन्नमेव ज्ञानं प्रतिपन्नाः । ततो न निश्चयः कर्तुं शक्यते, किमिदं सम्यगुतेदमिति । अथ यत्मकलवस्तुस्तोमसाक्षात्कारिभगवदर्धमानो- 5 पदेशादुपजायते जानं तत्सम्यनेतरत्, असर्वज्ञमूलत्वादिति चेत् । सत्यमेतत्, किंतु स एव सकलवस्तुस्तोमसाक्षात्कारौ, न तु मौगतादिसंमतः सुगतादिरिति कथं प्रतीयते, तवाहकप्रमाणा भावादिति तदवस्थः संशयः। ननु यस्य दिवः समागत्य देवाः पूजादिकं कृतवन्तः, स एव वर्धमानः सर्वज्ञो, न शेषाः सुगता- 10 दय इति चेन्न, वर्धमानस्य चिरातीतत्वेनेदानौं तनावग्राहकप्रमाणाभावात् । संप्रदायादवसीयत इति चेत् । ननु मोऽपि संप्रदायो धूर्तपुरुषप्रवर्तितः किं वा सत्यपुरुषप्रर्तित इति कथमवगन्तव्यं, प्रमाणाभावात् । न चाप्रमाणकं वयं प्रतिपत्तुं क्षमाः। मा प्रापदतिप्रसङ्गः। अन्यच्च । मायाविनः स्वयमसर्वज्ञा अपि 15 जगति स्वस्य सर्वज्ञभावं प्रचिकटयिषवस्तथाविधेन्द्रजालवशाह
यन्ति देवानितस्ततः संचरतः स्वस्थ पूजादिकं कुर्वतः । ततो देवागमदर्शनादपि कथं तस्य सर्वज्ञत्वनिश्चयः । तथा चाह जैन एव स्तुतिकारः समन्तभद्रः । देवागमनभोयानचामरादिविभूतयः।
20 मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ॥ १॥ भवतु वा वर्धमानखामी सर्वज्ञस्तथापि तस्य सत्कोऽयमा-'