________________
जनमतम् ।
१५५
खाभाविकसंभवात्, दर्दुरवत् । अथवा सचेतना अन्तरिक्षोद्भवा प्रापः, अभ्रादिविकारे खत एव संभूय पातात्, मत्स्यवदिति । तथा शीतकाले भृशं शौते पतति नद्यादिवल्पे ऽल्पो बहौ बहुबहुतरे च बहुतरो य ऊमा संवेद्यते, म जौवहेतुक एव, अल्पबहुबहुतरमिलितमनुष्यशरोरेवल्पबहुबहुतरोभवत् । प्रयोग- 5 वायम् । शीतकाले जलेषम उष्णस्पर्शवस्तुप्रभवः, उष्णस्पर्शत्वात्, मनुष्यशरीरोष्णस्पर्शवत् । न च जलेस्वयमुष्णस्पर्शः सहजः, "अशु स्पर्श: शौत एव" इति वैशेषिकादिवचनात् । तथा शीतकाले शौते स्फोते निपनति प्रातस्तटाकादेः पश्चिमायां दिशि स्थित्वा यदा तटाकादिकं विलोक्यते, तदा तज्जलानिर्गतो 10 वाष्पसंभारो दृश्यते । सो ऽपि जीवहेतुक एव । प्रयोगस्वित्थम् । शीतकाले जलेषु बाष्य उष्णस्पर्शवस्तुप्रभवः, वाष्यत्वात्, शीतकाले शीतलजलसिक्तमनुव्यशरीरबाष्पवत् । प्रयोगद्वये ऽपि यदेवोष्णस्पर्शस्य बाष्यस्य च निमित्तमुष्णस्पर्श वस्तु, तदेव तैजसशरीरोपेतमात्माख्यं वस्तु प्रतिपत्तव्यं, जलेवन्यस्योष्णस्पर्श- 15 बाष्पयोनिमित्तस्य वस्तुनो ऽभावात् । न च शीतकाल उत्कुरुडिकावकरतलगतोष्णस्पर्शन तन्मध्यनिर्गतबाष्येण च प्रकृतहेत्वोयभिचारः शङ्ख्यः, तयोरप्यवकरमध्योत्पन्नमृतजीवशरीरनिमितत्वाभ्युपगमात् । ननु मृतजीवानां शरीराणि कथमुष्णस्पर्शबाष्पयोनिमित्तीभवन्तौति चेत् । उच्यते । यथामिदग्धपाषाण- 20 खण्डिकासु जलप्रक्षेपे विध्यातादप्यमेरुष्णस्पर्शबाष्पौ. भवेतां, तथा शीतसंयोगे सत्यप्यत्रापौति । एवमन्यत्रापि बाष्पोष्ण