________________
जनमतम्। .. १३५ स्थावस्थायामपि केवलिनो ऽभुक्तिप्रसक्तः । समस्तवीर्यान्तरायक्षयाभावाच्छद्मस्थस्य भुक्तिरिति चेत्, तदयुक्तम् । यतः, किं तत्रायुष्कस्यापवर्तनं स्यात्किं वा चतुर्ण ज्ञानानां काचिद्धानिः स्थात्, येन भुक्तिः । तेन यथा दीर्घकालस्थितेरायुष्कं कारणमेवमाहारो ऽपि, यथासिद्धिगतेयुपरतक्रियाध्यानचर- 5 मक्षण: कारणं, एवं सम्यक्वादिकमपौति, अनन्तवीर्यतापि तस्थाहारग्रहणे न विरुध्यते । यथा तस्य देवच्छन्दादौनि विश्रामकारणानि गमननिषीदनानि च भवन्ति, एवमाहारक्रियापि, विरोधाभावात् । न च बलवत्तरस्य वीर्यवतो ऽल्पौयसो छुट्यभिचारात् । किं चागमो ऽपि केवलिनो भुक्ति प्रतिपाद- 10 यति । तथाहि तत्त्वार्थसूत्रम् [६, ११] । “एकादश जिने" इति । व्याख्या । एकादश परोषहाः चुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगबणस्पर्शमलाख्या जिने केवलिनि भवन्ति, तत्कारणस्य वेदनीयस्थाद्यापि विद्यमानत्वात् । न च कारणानुच्छेदे कार्यस्योच्छेदः संभाव्यते, अतिप्रसक्तः । अत एव 15 केवतिनि चुवेदनौयपीडा संभाव्यते, किं वसावनन्तवीर्यत्वान विहलोभवति, न चासौ निष्ठितार्थो निःप्रयोजनमेव पौडां सहते, न च शक्यते वक्तुं “एवंभूतमेव भगवतः शरीरं, यदुत क्षुत्पौडया न बाध्यते” इति, अनुमानेन तस्यास्तच सिद्धत्वात् । तथाहि । केवलिशरीरं चुदादिना पौद्यते, शरीरत्वात्, 20 अस्मदाद्यधिष्ठितशरीरवत् । तथा । यथा तच्छरौरं स्वभावेन प्रखेदादिरहितं, एवं प्रक्षेपाहाररहितमपौत्यपकर्णनीयमेव, अप्र.