________________
जैनमतम् ।
१२०
कारिमव्यपेचः । तत्कथं तत्र तापो ऽभ्यस्यमानः परां काष्ठां गच्छेत् । श्रनन्ततापे प्रत्युत पाथमः परिचयात् । ज्ञानं तु जीवस्य महजो धर्मः स्वाश्रये च विशेषमाधत्ते । तेन तस्य निरन्तराभ्यामाहिताधिकोत्तरोत्तरविशेषाधानात् प्रकर्षपर्यन्तप्राप्तिर्नायुक्ता । एतेन " लङ्घनाभ्यास” इत्यादि निरस्तं, अ लङ्घनस्याम हजधर्मत्वात्, स्वाश्रये च विशेषानाधानात्, प्रत्युत तेन सामर्थ्यपरिचयादिति । तथा जलधिजलपलप्रमाणादयः कस्यचित्प्रत्यचाः, प्रमेयत्वात्, घटादिगतरूपादिविशेषवत् । न च प्रमेयत्वमसिद्धं, अभावप्रमाणस्य व्यभिचारप्रसक्तः । तथाहि । प्रमाणपञ्चकातिक्रान्तस्य हि वस्तुनो ऽभावप्रमाणविषयता 10 भवताभ्युपगम्यते । यदि च जलधिजलपलप्रमाणादिषु प्रमाणपञ्चकातिक्रान्तरूपमप्रमेयत्वं स्यात्, तदा तेय्वप्यभावप्रमाणविषयता स्यात् । न चात्र तत्त्वे ऽपि सा संभविनौति । यस्य च प्रत्यक्षाः, स भगवान् सर्वज्ञ इति । तथास्ति कश्चिदतीन्द्रियार्थसार्थमाचात्कारौ, अनुपदेशालिङ्गाविसंवादिविशिष्टदिग्देशका - 15 लप्रमाणाद्यात्मकचन्द्रादिग्रहणाद्युपदेशदावित्वात् । यो यद्विषये ऽनुपदेशालिङ्गाविसंवाद्युपदेशदायौ स तत्माक्षात्कारी यथास्मदादिः, अनुपदेशालिङ्गा विसंवाद्युपदेशदायो च कश्चित् तस्मात्तत्याचात्कारी ; तथाविधश्च श्रीसर्वज्ञ एवेति । यच्चोक्तं “प्रमाणपञ्चकाप्रवृत्तेः सर्वज्ञस्याभावप्रमाण गोचरत्वं”, तदपि वाङ्मात्रं, 20 प्रमाणपञ्चकाप्रवृत्तेरसंभवात् । सा हि बाधकत्वेन स्यात् न च सर्वज्ञे बाधकसंभवः । तथाहि । तद्वाधकं प्रत्यचं १ अनुमानं २