________________
जैनमतम् ।
१२५
न चानुमानं, प्रत्यक्षदृष्ट एवार्थ तत्प्रवर्तनात् । न चागमः, सर्वज्ञस्थासिद्धत्वेन तदागमस्यापि विवादास्पदत्वात् । न चोपमानं, सर्वज्ञमदृशस्यापरस्याभावात् । न चापत्तिरपि, सर्वज्ञमाधकस्यान्यथानुपपनार्थस्थादर्शनात् । ततः प्रमाणपञ्चकाप्रवृत्तेरभावप्रमाणगोचर एव सर्वज्ञः। तदुक्रम् ।
प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । . वस्वसत्त्वावबोधार्थ तत्राभावप्रमाणता ॥ इति ।
प्रयोगोऽत्र । नास्ति सर्वज्ञः, प्रमाणपञ्चकागाछमाणत्वात्, खरविषाणवत् ॥ . किं च । यथानादेरपि सुवर्णमलस्य क्षारमृत्पुटपाकादि- 10 प्रक्रियया विशोध्यमानस्य निर्मलत्वं, एवमात्मनोऽपि निरन्तरं ज्ञानाद्यभ्यासेन विगतमलत्वात्सर्वज्ञवं किं न भवेदिति मतिस्तदपि न, अभ्यासेन हि शद्धेस्तारतम्यमेव भवेन्न परमः प्रकर्षः, न हि नरस्य लखनमभ्यासतस्तारतम्यवदप्युपलभ्यमानं सकललोकविषयमुपलभ्यते । उनं च।
15 .... दशहस्तान्तरं व्योन्नो यो नामोत्नुत्य गच्छति। ।
न योजनशतं गन्तुं शक्तो ऽभ्यासशतैरपि॥ १॥ इति । अपि च स सर्व वस्तुजातं केन प्रमाणेन जानाति। किं प्रत्यचेणोत यथासंभवं सर्वेरेव प्रमाणैः। न तावत्प्रत्यक्षेण, तस्य सन्निहितप्रतिनियतार्थवाहित्वात् । नाप्यतीन्द्रियप्रत्यक्षेण, तत्मनावे प्रमा- 20 णभावान् । नापि सर्वै रेव प्रमाणैः, तेषां प्रत्यक्षपूर्वकत्वात् सर्वेषां सर्वज्ञतापत्तेश्चेति ॥ अन्यच्च । अनाद्यनन्तः संसारः ।