________________
जैनमतम् ।
करणतत्सामान्येन कार्यत्वस्यास्ति व्याप्तिः, सर्वज्ञस्य कर्तुरतो ऽनुमानात्प्रागसिद्धेः । व्यभिचारिणश्चामी बुद्धिमन्तमन्तरेणापि विद्युदादीनां प्रादुर्भावविभावनात्, स्वप्नाद्यवस्थायामबुद्धिमत्पूर्वस्यापि कार्यस्य दर्शनाच्चेति । कालात्ययापदिष्टाश्चैते, प्रत्यचागमबाधितपचानन्तरं प्रयुक्तत्वात् । तद्वाधा च पूर्वमेव दर्शिता । 5 प्रकरणसमाञ्चामौ, प्रकरणचिन्ताप्रवर्तकानां हेत्वन्तराणां सद्भावात् । तथाहि । ईश्वरो जगत्कर्ता न भवति निरुपकरणत्वात्, दण्डचक्रचौवराद्युपकरणरहितकुलालवत्, तथा व्यापित्वादाकाशवत्, एकत्वात्तददित्यादय इति । नित्यत्वादीनि तु विशेष
१२३
नि तयवस्थापनायानीयमानानि शढं प्रति कामिन्या रूप- 10 संपन्निरूपणप्रायाण्यपकर्षणौयान्येव । विचारा महत्वाख्यापनार्थं तु किंचिदुच्यते । तत्रादौ नित्यत्वं विचार्यते । तञ्चेश्वरे न घटते । तथाहि । नेश्वरो नित्यः, स्वभावभेदेनेव चित्यादिकार्यकर्त त्वात्, अप्रच्युतानुत्पन्नस्थिरैकस्वभावं कूटस्थं नित्यमिति हि नित्यवलक्षणाभ्युपगमात् । स्वभावभेदानभ्युपगमे च सृष्टिसंहारा- 15 दिविरुद्ध कार्यकारित्वमतिदुर्घटम् । नापि तज्ज्ञानादौनां नित्यत्वं वाच्यं, प्रतौतिविरोधात्, ईश्वरज्ञानादयो न नित्या ज्ञानादित्वादस्मदा दिज्ञानादिवदित्यनुमानविरोधाच्च । एतेन तदीयज्ञानादयो नित्या इत्यादि यदवादि, तदपोहितमूहनीयम् । सर्वज्ञत्वमप्यस्य केन प्रमाणेन ग्राह्यम् । न तावत्प्रत्यक्षेण, तस्ये - 20 न्द्रियार्थसन्निकर्षोत्पन्नत्वेनातीन्द्रियार्थग्रहणासमर्थत्वात् । नाप्यनुमानेन, अव्यभिचारिलिङ्गाभावात् । ननु जगदे चिच्चान्यथानुप