________________
सांख्यमतम् ।
१०६
विषयस्तात्त्विक इति । अत्र चयो गुणाः सत्त्वरजस्तमांसि । ततः खार्थ योऽनन्तादेरिति एयः, यथा यो लोकास्त्रैलोक्यं षड्गुणाः पाङ्गण्यम् । ततस्वैगुणं रूपं खभावो यस्य सामान्यस्य, तत् चैगुण्यरूपमिति । प्रमाणस्य च फलमित्थम् । पूर्व पूर्व प्रमाणमुत्तरं तु फलमिति ॥ तथा कारणे कार्य मदेवोत्पद्यते । ऽसदकरण दिभ्यो हेतुभ्यः । तदुक्क्रम् (मांख्यकारिका )।
असदकरणादुपादानग्रहणात्सर्वसंभवाभावात् । .. शकस्य शक्यकरणकारणभावाच्च सत्कार्यम् ॥ इति । अत्र सर्वसंभवाभावादिति । यद्यसत्कार्य स्यात्तदा सर्व सर्वत्र भवेत् । ततश्च तणादिभ्योऽपि सुवर्णादीनि भवेयुः। न च 10 भवन्ति । तस्मात्कारणे कार्य मदेव । तथा द्रव्याण्येव केवलानि मन्ति, न पुनरुत्पत्तिविपत्तिधर्माणः पर्यायाः केऽपि, विर्भावतिरोभावमात्रत्वात्तेषामिति ॥
मांख्यानां तर्कग्रन्थाः षष्टितन्त्रोद्धाररूपं, माठरभाव्यं, सांख्यसप्ततिनामकं, तत्त्वकौमुदी गौडपादं, पात्रेयतन्वं चेत्यादयः ॥ 15
मांख्यमतमुपसंजिहीर्षश्रुत्तरत्र जैनमतमभिधित्मन्बाह एवं सांख्यमतस्यापि समासो गदितोऽधुना। जैनदर्शनसंक्षेपः कथ्यते सुविचारवान् ॥ ४४ ॥ एवमुक्तविधिना मांख्यमतस्यापि न केवलं बौद्धनैयाधिकयोरित्यपिशव्दार्थः। समासः संक्षेपोऽधना गदितः । जैन- 20 दर्शनसंक्षेपः कथ्यते । कथंभूतः। सुविचारवान्। सुष्टु सर्व