SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ स्थानामप्यनादित्वात् सुतरामीश्वरस्याऽनादित्वसिद्धिर्जुनप्रवचनेऽपि । मुक्तेरनादित्वादेव च संसारस्याऽप्यनादित्वं सुतरां सिध्यति । ___ईश्वरस्य वीतरागत्वेन निग्रहानुग्रहकारित्वाभावेऽपि तदुपासना परमावश्यकी। शुद्धालम्बनेन मनसः शुद्धिभावेन सर्वार्थसिद्धेः । यादृशं ह्यालम्बनं तथारूप उपरागो मनस्युपजायते । यथा चाग्निं सेवमानस्य शीतार्तिरुपशाम्यति तद्वद्वीतरागं परमेश्वरमुपासीनस्य सगार्तिरुपशाम्यति । . अन्यच्च आर्हतानामयं मूलमन्त्रः- सर्वे खलु भावाः स्याद्वादमुद्राङ्किताः; स्याद्वादमन्तरेण वस्तुस्वरूपानुपपत्तेः । स्याद्वादो हि सापेक्षतयैकस्मिन् धर्मिणि सदसत्त्वनित्यानित्यत्वाद्यनेकधर्माभ्युपगमः। सर्व हि वस्तु स्वरूपेण सत् पररूपेण चासत् , कटक-कुण्डलादिपर्यायेण चानित्यं स्वर्ण-मृत्तिकादिमूलद्रव्येण च नित्यं सर्वेषां प्रतीतिपथमारोहति । इदं च तत्त्वं श्रीहरिभद्रसूरिपादैरनेकान्तजयपताकायां बहु विवेचितमस्तीति तद्विषयिणी जिज्ञासा तत एव सम्यगुपशाम्यति । . अधिकजिज्ञासुमहाशयै नतत्त्वज्ञानविषये कर्मग्रन्थ-तत्त्वार्थसूत्र-लोकप्रकाश-विशेषावश्यकादयो ग्रन्था अवलोकनीयाः । इह त्वेतावदेव वक्तुमुचितं मत्वा विरमति विजयधर्मसूरिः।
SR No.022453
Book TitleJain Tattvagyanam
Original Sutra AuthorN/A
AuthorVijaydharmsuri
PublisherPremchand Ratnaji
Publication Year
Total Pages22
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy