________________
निरूपणम्]
टीकात्रयोपेता व्यभिचारवारणाय वेगेति । वेगत्वे व्यभिचारवारणाय स्थितिस्थापकेति। स्थितिस्थापकत्वे व्यभिचारवारणाय वेगेति । वेगस्थितिस्थापकान्यतरत्वे व्यभिचारवारणाय जातित्वादिति । सुखादिवृत्तित्वेन सत्तायां साध्यसिद्धिः । [अ. टी. ] यावद्रव्यभावी रूपादिरपि भवतीति संस्कारपदम् । वेगभावनयोर्व्यवच्छेदार्थ यावद्व्यभावीति । सुवर्णमतीन्द्रियवदित्युक्ते गगनादिसंयोगवत्वेन सिद्धसाधनता स्यादतो यावद्व्यभाविग्रहणम् । यावद्रव्यमावि रूपादिमत्वेन सिद्धसाधनताव्युदासार्थम् अतीन्द्रियवदित्युक्तम् । सूच्या गुरुत्वयोगात्साध्यवत्ता । पुरुषगुणो भावनेत्युक्ते बुध्यादावतिव्याप्तिः स्यादतस्संस्कारपदम् । वेगस्थितस्थापकयोर्व्यवच्छेदार्थ पुरुषगुणेत्युक्तम् । स्थितस्थापकत्ववेगत्वयोरेकैकत्र व्यभिचारवारणार्थ स्थितस्थापकवेगजातित्वादित्युक्तम् । [वा. टी.] वेगनिवृत्तये यावद्रव्येति । रूपनिवृत्तये संस्कार इति । सुवर्णमिति । ननु घनावयवत्वं किं गुर्ववयवत्वम् ? निबिडावयवत्वम् वा ? आये हेत्वसिद्धिः । न हि तेजसि गुर्ववयवत्वमस्ति । द्वितीयेऽपि किं बढवयत्वम् ? अन्यद्वा ? आये प्रभायामनैकान्तः, बहुपदवैयर्थ्यञ्च व्यावाभावात् । द्वितीयेऽसम्भवः, निरूपयितुमशक्यत्वात् । किञ्च सूच्यास्तैजसत्वेनोक्तगुणाभावात् दृष्टान्तोऽपि साध्यविकल इत्यसङ्गतमिदमनुमानमिति चेत्-न; घनत्वं नाम द्रवत्वयोग्यत्वेऽपि घनोपलवदनुद्भूतद्रवत्वम् , तथाभूता अवयवा यस्येति तत्तथा, तस्य भावस्तत्वं तस्मात् । तथाचेदमुक्तं भवति-द्रवावयवत्वयोग्यद्रवत्वादिति । न च सूचीवदिति दृष्टान्तोऽपि साध्यविकलः । सूचीनाम सूक्ष्मस्तीक्ष्णश्शलाकापरपर्यायो द्रव्यविशेषः । स च लोहविकारवत्पार्थिवद्रव्यविशेषविकारोऽपि सम्भवतीति स एवास्तु दृष्टान्त इति सर्वं सुस्थम् । दिक्संयोगनिवृत्तये यावद्व्यभावीति । रूपनिवृत्तये अतीन्द्रियवदिति (2)। रूपनिवृत्तये पुरुषेति । सुखनिवारणाय संस्कार इति । संस्कारत्वमिति । घटत्वनिवृत्तये वेगेति। विगत्वनिवृत्तये स्थितस्थापकेति । स्थितस्थापकनिवृत्तये वेगेति । इदं हि पुरुषगुणवृत्ति तदा भवेत् यदि कोऽपि संस्कारभेदः पुरुषगुणस्स्यादिति भावानासिद्धिः । दृष्टान्ते बुध्यादिवृत्तित्वेन सिद्धिः ।
. (धर्माधर्मों) - अतीन्द्रियः पुरुषैकवृत्तिः सुखहेतुर्धर्मः ।
अतीन्द्रियः पुरुषैकवृत्तिदुःखहेतुरधर्मः । तत्र प्रमाणम्-विमतं मूर्तद्रव्यचलनं पुरुषगुणकारितं, क्रियात्वात् , कलेवरचलनवदिति ।
१रूपादेरपि सम्भवतीति ज.२ इति दृष्टान्तसिद्धिरित्यधिकं ट पुस्तके. ३, ४, ५ स्थितीति ट.
प्रमाण. ११