________________
निरूपणम्]
टीकात्रयोपेता [अ. टी.] रूपादिगुणव्युदासाथ संयोगविरोधीत्युक्तम् । संयोगप्रध्वंसादिव्युदासाय गुणपदम् । कर्मजपदं संयोगजसंयोगांधारत्वेन सिद्धसाधनतानिरासार्थम् । शरीरस्य संयोगातिरिक्तः कर्मजो गुणो वेगः । कर्म असमवायिकारणं यस्येति विग्रहः । सिद्धसाधनताव्यवच्छेदार्थम् एकानेकपदम् । रूपत्वादौ व्यभिचारवारणाय विभागजातित्वादित्युक्तम् । कथं तर्हि विभागजविभागसिद्धिरित्यत आह-विभागजेति। वंशदलयोमिथो विभागे सैति नभसापि तयोविभागो जायते, स न वंशदलक्रियाजन्यः, तस्या दलविभागजननेनैवोपक्षीणत्वात् , पेरिशेषाद्विभागजन्य इत्यर्थः । साक्षात्प्रमाणमाह-विभागत्वमिति । धनुर्गुणविभागजन्यबाणकर्मणि सत्तावर्तिदृष्टान्तलाभः ।
[वा. टी.] संयोगेति । रूपेऽतिव्याप्तिपरिहाराय विरोधीति । सुखेऽतिव्याप्तिपरिहाराय संयोगेति । संयोगाभावेऽतिव्याप्तिपरिहाराय गुण इति । यत्तु संयोगधंस एव विभाग इति मतम् तन्न; आश्रयध्वंसात्संयोगध्वंसे विभागबुध्यभावाद्वर्तमानयोस्संयोगनाशस्य विभागत्वे सावधित्वेन व्यवहारबाधप्रसङ्गात् । अतोऽतिरिक्त एव विभाग इत्याशयवांस्तत्र प्रमाणमाह-आकाश इति । द्रव्यत्वेन सिद्धसाधनतापरिहाराय गुण इति । संख्यया सिद्धसाधनतापरिहाराय कर्मजेति । संयोगेन सिद्धसाधनतापरिहाराय संयोगातिरिक्तेति । संयोगातिरिक्तकर्मजक्रियाधारत्वसाधने बाधः, तन्निरासाय गुणाधार इति । दृष्टान्ते वेगेन सिद्धिः । विभागत्वमिति । विभागासमवायिकारणकविभागवृत्तित्वेन सिद्धसाधनतापरिहाराय एकेति । एकगतमनेकगतं कर्म असमवायिकारणं यस्येति । यद्वा एककर्मासमवायिकारणवृत्ति । अनेन कर्मासमवायिकारणवृत्तीति साध्यभेदेन प्रमाणद्वयं द्रष्टव्यम् । दृष्टान्ते च संयोगादिवृत्तित्वेन सिद्धिः । विभागत्वमिति । कर्मजवृत्तित्वेन सिद्धसाधनतापरिहाराय प्रतिज्ञायाम् अकारः। संयोगत्वेन सिद्धसाधनतापरिहाराय विभागेति । रूपादिवृत्तित्वेन दृष्टान्तसिद्धिः । साक्षात्प्रमाणे च विभागासमवायिकारणशब्दवृत्तित्वेन दृष्टान्तसिद्धिः।
(परत्वापरत्वयोर्लक्षणं प्रमाणञ्च ) परव्यवहारे यद्विशेषणतया निमित्तं तत्परत्वम् । अपरव्यवहारे यद्विशेषणतया निमित्तं तदपरत्वम् । तत्र प्रमाणम्-घटोऽस्मदादिबुद्धिजैकद्रव्यजातीयवान् , अनेकविशेषगुणसमवायिकारणत्वात्, आत्मवत् । विप्रतिपन्नं परत्वादिसंयोगासमवायिकारणकम् , अस्मदादिबुद्धिजैकद्रव्यत्वात्, सुखादिवदिति परिशेषात् कालपिण्डसंयोगासमवायिकारणत्वं सिद्धमनयोः।
१व्यवच्छेदार्थमिति न, ट. संयोगगुणेति 2. ३सतीति नास्ति ज, पुस्तकयोः. मम. सोऽपीति झ. ५पारिशेष्यदिति झ. ६ वृत्तरिति ज, ट. ७ पारिशेष्यादित्यद्वयारण्योद्धृतः पाठः .
. प्रमाण.८