________________
territat'
निरूपणम् ]
परिमाणनिरासे परिशेषात् द्वित्वमसमवायिकारणमिति द्वित्वसंख्यासिद्धिः । दृष्टान्ते च विभागजवि - भागवृत्तित्वेन सिद्धिः । अनित्यपरिमाणेऽतिव्याप्तिपरिहाराय नित्येति । रूपेऽतिव्याप्तिपरिहाराय अनेकेति । रूपत्वेऽतिव्याप्तिपरिहाराय द्वित्वेति । दृष्टान्ते च सुखादिवृत्तित्वेन सिद्धिः । द्वित्वबुद्धिजत्वञ्चैवम् - आदाविन्द्रियसम्बन्धादेकमिति सामान्यतो बुद्धिर्भवति । तत एकमिदमिदमेकमित्येकत्वयुगलविषयापेक्षाबुद्धिर्भवति, ततो द्वित्वोत्पत्तिः । तत्र द्वे द्रव्ये समवायिकारणम्, तदेकत्वेऽसमवायिकारणम्, अपेक्षाबुद्धिर्निमित्तकारणमिति । तदाद्दुः
'आदाविन्द्रियसन्निकर्षघटनादेकत्व सामान्यघी
रेकत्वोभयगोचरा मतिरतो द्वित्वं ततो जायते ।
द्वित्वस्य प्रमितिस्ततोऽपि परतो द्वित्वप्रमानन्तरं
द्वे द्रव्ये इति धीरियं निगदिता द्वित्वोदयप्रक्रिया' ॥ इति
*
( संख्याया यावद्रव्यभावित्वे प्रमाणम् )
उत्तरत्र प्रमाणम्-संख्यात्वं यावद्द्रव्य भाविवृत्ति, द्वित्वत्विजातित्वात्, सत्तावदिति, तदेवैकत्वम् । संख्या गुणः, सामान्यैकाश्रयत्वे सति अकर्मत्वात्, रूपवदिति परपक्षव्युदासः । एवंभूतायास्संख्यायाः पदार्थान्तरत्वे स्वीकृते रूपमपि पदार्थान्तरं भवेत् ।
1
[ ब. टी.] संख्यात्वमिति । उद्देश्यसिद्धये यावदिति । यावद्ध्याश्रयभाविवृत्तीत्यर्थः । तेनाकाशादिसमानकालीनध्वंसप्रतियोगित्वेऽपि घटाद्येकत्वस्य न क्षतिः । संयोगत्वादौ व्यभिचारभङ्गय द्वित्वत्रित्वेति । संयोगादि द्रव्यनाशान्नश्यति । तस्याप्ययावद्द्रव्यभावित्वं यथा तथोक्तमधस्तात् । द्वित्वत्वे त्रित्वत्वे व्यभिचारवारणायैतदुभयवृत्तित्वमुक्तम् । एतदुभयान्यतरत्वादौ व्यभिचारवारणाय ( जातिपदम् १) । जातिपदार्थस्य व्यर्थत्वभङ्गार्यं (१) । गुणत्वं साधयति-संख्येति । सामान्यादौ व्यभिचारवारणाय सामान्येति । घटे व्यभिचारवारणाय एकेति । कर्मणि व्यभिचारवारणाय कर्मान्यस्वादिति । जातिमात्रसमवायित्वे सति कर्मभिन्नत्वादिति समुदायार्थः । धर्ममात्रस्य समवायित्वं द्रव्येऽप्यस्ति । धर्ममात्रसम्बन्धित्वन्त्वसिद्धमतो विशिष्टो हेतुः । विपक्षे बाधकमाह - एवमिति ।
[अ. टी. ] उत्तरत्र यावद्द्रव्यभावि संख्यायाम् । संयोगत्वादौ व्यभिचारयुदासाय द्वित्वत्रित्वजातित्वादित्युक्तम् । यावद्रव्यभाविनी च संख्या एकत्वं संज्ञेत्याह- तदेवेति । संख्याया गुणत्वे सिद्धे सर्वमेतद्युक्तं स्यात्तदेव कुत इत्यत आह- संख्या गुण
१ वृत्तीति नास्ति घ पुस्तके २ कर्मान्यत्वादिति बलदेवोद्धृतः पाठः ३ संख्या गुण इत्यधिकं ग, घ. पुस्तकयोः. ४ वारणायेति च. ५ नाशायेति च. ६ जातिपदार्थस्यान्यर्थत्वभाग इति च. मात्रसमवायित्वमिति च. ८ निरास येति ज, ट. ९ संख्येत .
प्रमाण० ७