________________
प्रमाणमञ्जरी
[द्रव्यदश गुणा आत्मनि त एव न पयसीति शब्दसाम्येऽपि न पक्षदृष्टान्तयोरेकहेतुता, तथापि चतुर्दशशब्दवाच्यत्वानुगतीकृतगुणविभाजकोपाध्याधाराधारत्वं हेतुः । यद्यपि संस्कारशून्यस्यै पयसो न दृष्टान्तता चतुर्दशगुणवत्त्वाभावात्, तथापि हेतुमत्य आपो दृष्टान्तः। केचिवारम्भकतापन्ने जले वेगनियमात् तदारम्भकेऽपि वेगनियम इत्याहुः। घटाकाशादिशब्दे बाधसिद्धसाधनवारणाय आत्मेति । एकमात्रवाचकत्वेनार्थान्तरवारणाय अनेकेति । लक्षणया शरीराधनेकप्रतिपादकत्वेऽपि न तत्रात्मशब्दस्य शक्तिः । एवमाकाशशब्दस्य शक्ति ताकाश एव । चिदाकाशादौ लक्षणया प्रयोगः। यद्वा एकप्रवृत्तिनिमित्तपुरस्कारेणानेकधावाचकत्वं साध्यम् । आकाशादिशब्दे व्यभिचारवारणाय आत्मेति । लक्षणयात्मप्रतिपादके गगनशब्दे व्यभिचारवारणाय वाचकत्वादिति ।न चात्मवाचके एतदादिशब्दे व्यभिचारः, तस्याप्यनेकवाचकत्वात् । बुद्धिस्थत्वस्य प्रयोगोपाधित्वादेकमात्रप्रयोगः। न चैतदात्मत्वपुरस्कारेणैतदात्मशब्दे हेतुर्व्यभिचारीति वाच्यम् । एतस्य वाक्यत्वेनावाचकत्वात् । देवदत्तादिशब्दः शरीरवाचको नात्मवाचक इति न व्यभिचारः। पूर्वानुमाने तात्पर्याद्वा । आत्मनो वाचकत्वं साधयति-मदिति । दृष्टान्तासिद्धिवारणाय शरीरेतरेति पक्षविशेषणम् । आश्रयासिद्धिभङ्गाय मदिति । मदतिरिक्तं ममापि शरीरं भवतीति व्यर्थविशेषणतावारणाय मच्छरीरेतराणीति निजगदे । गुणादी बाधवारणाय मूर्तानीति । कालादौ बाधवारणाय मूर्तत्वशरीरनिवेशितपरिच्छिन्नत्वभागः । परिमाणयोगित्वं कालादौ व्यभिचारि तदर्थमविच्छिन्नपरिमाणयोगित्वलक्षणं मूर्तत्वं हेतुः। सजीव इत्यर्थः। एवञ्चेदं क्वाचित्कत्वाभिप्रायम् । यद्वा चतुर्दशगुणवद्वृत्तिद्रव्यविभाजकोपाधिमानित्यर्थः।
[अ. टी.] अनीशात्मन्यकत्वं मन्यमानं प्रत्याह-अस्मदाद्यात्मेति । सत्तावान्तरद्रव्यत्वजातिमत्त्वेन सिद्धसाधनताव्युदासीर्थ द्रव्यत्वावान्तरपदम् । आकाशादौ व्यभिचारवारणार्थ चतुर्दशपदम् । प्रयोगान्तरमाह-आत्मशब्द इति । अत्र जीवविषय आत्मशब्दो विवक्षितः । साधारणश्चेजीवेश्वरवाचकत्वेन सिद्धसाधनता स्यात् । कालादिवाचकशब्दैर्व्यभिचारवारणार्थम् आत्मवाचकत्वादित्युक्तम् । देहादिव्यतिरिक्तोऽप्यात्मा अणुरिति केचित् । केचिंच्च मध्यमपरिमाण इति वदन्ति । तद्व्युदासार्थमाह-मच्छरीरेति । मच्छरीरं मदात्मसंयोगि सिद्धमिति इतरग्रहणम् । आत्मान्तरैस्सह संयोगौजि सिद्धानीति मदात्मग्रहणम् । ईशात्मापि न परिच्छिन्न इत्याह-स नित्य इति । एवं देशतः कालतश्च
१ यद्यपीति नास्ति छ पुस्तके. २ शुद्धस्येति छ. ३ पतिरियं च पुस्तके नास्ति. ४ अनेकवाचकत्वमिति च. ५ आदीति नास्ति च पुस्तके. ६ आत्मेति नास्ति च पुस्तके. ७ भङ्गायेति च.
मच्छरीरेति च. ९ निविष्टेति च. १० अवित्रिन्नेति छ. १५ हेतूकृतमिति छ. १२ व्युदासायेति ज, ट. १३ वारणायेति ज, ट. १४ वाचकेति नास्ति ज पुस्तके. १५ व्युदासार्थमिति ज, ट. १६ सहेति नास्ति ज पुस्तके. १७ भाजीति नास्ति ट पुस्तके. *रामानुजीयाः, जैनाः.