________________
निरूपणम्]
टीकात्रयोपेता [वा. टी.] मनोऽन्तरसंयुक्तत्वेन सिद्धसाधनतापरिहाराय मनसाऽसंयुक्तमिति। सिद्धसाधनतापरिहाराय गुणरहितेति । बाधनिवारणाय विशेषेति । प्रलयावस्थात्माकाशसंयुक्तत्वेन सिद्धसाधनतापरिहाराय सर्वदेति । एकेनैव परत्वादिव्यवहारोपपत्तौ बहुत्वकल्पनं गौरवग्रस्तमसदेवेत्याह-अत्रेति । ननु किमिति प्रमाणाभावः, दिगादि द्रव्यत्वव्याप्यजातिसजातीयप्रतियोगिकभेदवत् , अशब्दद्रव्यत्वात् , घटवत् । तथाच पृथिवीत्वादीनामसम्भवादिक्त्वादिसिद्धावनेकत्वसिद्धिः । न च गौरवपराहतिः, प्रामाणिकेऽर्थे गौरवस्यादोषत्वात् । तथा चाहुः
प्रमाणवन्त्यदृष्टानि कल्प्यानि सुबहून्यपि ।
बालाप्रशतभागोऽपि न कल्प्यो निष्प्रमाणकः ॥ इति । तत्र संस्कारवत्त्वेन सोपाधिकत्वात् । ननु मा भूदनेकत्वम् , एकत्वे किं मानमत आह–दिक्कालाविति । द्रव्यत्वेति । द्रव्यत्वव्याप्यत्वावच्छिन्ना यावती जातिव्यक्तिस्तदत्यन्ताभाववन्ताविव्यर्थः । एतेन सिद्धसाधनता परिहृता भवति । दिगाद्यनन्तत्ववादिना दिक्त्वादेरपि द्रव्यत्वव्याप्यत्वाङ्गीकारात् । बाधनिवारणाय अवान्तरेति । घटत्वादिरहितत्वेन सिद्धसाधनतापरिहाराय द्रव्यत्वेति । आत्मनिवारणाय बुद्धीति। घटनिवारणाय सर्वेति । ननु भवतूक्तजातिरहितत्वम् , एकत्वस्य कुतोऽसिद्धिः । न हि तदेवैकत्वम् , नापि तदनुपपत्त्या तदविनाभावेन वा तत्सिद्धिः, गुणादिषु व्यभिचारादित्याशङ्याह-इतीति । अस्मादेव प्रमाणादित्यर्थः । अयमाशयः-इह हि द्रव्यप्रकरणाइव्येति पदं लभ्यते । तथा च द्रव्यस्य सतो दिगादेरुक्तजातिरहितत्वं तर्खेव स्यात् यदि व्यक्त्यैक्यं भवेत् । अन्यथा तुल्यत्वादीनां जातिबाधकानामसम्भवादुक्तजातिसत्त्वमेव स्यात्, न तद्रहितत्वमिति । यद्वा द्रव्यत्वे सत्युक्तजातिरहितत्वमेकत्वेनाविनाभूतमाकाशे दृष्टमित्यनयोरप्येकत्वमापादयतीत्याहइतीति । एतन्मानसाधितादस्मादेव धर्मादित्यर्थः । तथाच दिगायेकत्वाधिकरणम् , द्रव्यत्वे सत्युक्तजातिरहितत्वादाकाशवदित्येकत्वसिद्धिरित्यर्थः । न च विशेषगुणत्वमुपाधिः, विशेषपदस्य पक्षमात्रव्यावर्तकत्वेन पक्षेतरत्वादिति ।
(दिक्कालयोस्सर्वकार्यनिमित्तत्वं सर्वगतत्वञ्च ) विप्रतिपन्नं सर्व कार्य दिक्कालकार्यम् , कार्यत्वात् , सम्प्रतिपन्नवदिति तयोस्सर्वकार्यनिमित्तत्वम् । आकाशकालदिशः सर्वगताः, मनोव्यतिरिक्तत्वे सत्यस्पर्शद्रव्यत्वात् , आत्मवदिति सर्वगतत्वम् । संख्यादिपञ्चगुणवत्त्वं कालदिशोः।
[ब. टी.] दिकालयोस्सर्वनिमित्तत्वं साधयति-विप्रतिपन्नमिति । दिक्कालसमवेतातिरिक्तं कार्यमित्यर्थः । इदन्तु विशेषणं यन्मते पक्षातिरिक्तस्यैव दृष्टान्तता, तन्मते दृष्टान्तासिद्धिवारणाय । सर्वोत्पत्तिमन्निमित्ततासिद्धये सर्वमिति । व्योमादौ बाधवारणाय
१ सम्प्रतिपन्नकार्यवदिति क. २ असंस्पर्शति मुद्रितपुस्तकपाठान्तरम्. ३ सिद्धमित्यधिकं ग. ४ मदिति नास्ति च पुस्तके.
प्रमाण०५