________________
निरूपणम्]
टीकात्रयोपेता [वा. टी.] अचेतनत्वा(दृणादि द्विगादि) भेद भिन्नत्वाच्च कालमाकलयते—विवक्षितेति । विवक्षितं नियतं यत्परत्वं तदसमवायिकारणमादित्यपरिस्पन्दोपनायकविभुद्रव्यपिण्डसंयोगस्तदाश्रयस्तदधिकरणम् । पिण्डेऽतिव्याप्तिपरिहाराय सर्वेति। सर्वगतत्वञ्च युगपत्सर्वमूर्तसंयोगित्वम् । आकाशनिराकरणाय असमवायीति । तथाप्यसमवायिशब्दवत्वेन तत्रैवातिव्याप्तिपरिहाराय परत्वेति । दिश्यतिव्याप्तिपरिहाराय विवक्षितेति। विप्रतिपन्नं शरीरसंयुक्तमित्यर्थः। न चाप्रसिद्ध विशेषणत्वम् । तथााहेअस्ति तद्वद्गुरुतरतपनपरिस्पन्दान्तरिते स्थविरादिपिण्डे परत्वादिव्यवहारः। तत्परत्वञ्च तपनपरिस्पन्दप्रकर्षजम् , तदन्वयव्यतिरेकानुविधायित्वात् , तन्तुपटवत् । तेषाञ्च तपनवर्तित्वेन खतःपिण्डासम्बन्धत्वादाश्रयस्यापि प्रादेशिकत्वेन पृथिव्यादिवत्तत्सम्बन्धाजनकत्वादात्ममनसोश्च विशेषगुणाधारत्वात्तदनुपपत्तेर्दिशोऽप्यादित्यादिसंयोगोपनायकत्वेनैवावगमात्पिण्डादित्यपरिस्पन्दसम्बन्धापादकस्य कस्यचिद्विभुनो द्रव्यस्यान्यतस्सिद्धत्वादिति । तथाच मानम्--तपनपरिस्पन्दा द्रव्यद्वारेण स्थाविरादिपिण्डसम्बद्धाः; खतोऽसम्बद्धत्वे सति तत्सम्बद्धत्वात् , पटगतमहारजतरागवदिति । पिण्डादित्यपरिस्पन्दानां संयुक्तसमवायलक्षणप्रत्यासत्तिरवघेया । संख्यादिपञ्चकमेषः ।
(दिग्लक्षणम् तत्र प्रमाणञ्च) । अनियतपरत्वासमवाय्याश्रयत्वे संति सर्वगता दिक् । विप्रतिपन्नं मनोऽनियतपरत्वासमवाय्याश्रयसंयुक्तम्, द्रव्यत्वादात्मवदिति तत्र प्रमाणम् । [ब. टी.] अनियतेति । आश्रयत्वमसमवाय्याश्रयत्वैश्च गगनादौ गतमतः परत्वेति। आत्मन्यगतये असमवायीति । कौलत्वेऽनतिप्रसक्तये अनियतेति । अनियतत्वञ्च कालकृतपरत्वादिव्यावृत्तदिकृतपरत्वादिनिष्ठो जातिविशेषः । यद्वा बहुतरतपनपरिस्पन्दान्तरितजन्यत्वादि यत् तद्बुद्धिजन्यत्वं संयुक्तसंयोगभूयस्त्वादि तद्बुद्धिजन्यत्वं वा । पिण्डेऽतिव्याप्तिभङ्गाय सर्वगतेति । विप्रतिपन्नमिति । दिक्साधकानुमानेऽनियतपदं कालसंयुक्तत्वेनार्थान्तरवारणाय। साध्ये विवक्षितपदश्चेत्, तदानियतत्वमेव तदर्थः। कचिदविवक्षितमपि पाठः। तदविवक्षितं परत्वं कालकृतं तद्भिन्नत्वमित्यर्थः। शेषं पूर्ववत् ।
[अ. टी.] अनियतं न ज्यैष्ठ्यादिवद्यावद्रव्यभावि । अनियतपदं कालव्यवच्छेदीय । इतरत्पूर्ववल्लक्षणेऽनुमानेऽपि । कालसंयुक्तत्वेन सिद्धसाधनताव्युदासार्थमनियतपदम् । [वा. टी. ] विशेषगुणशून्यत्वाध्यापकत्वाच्च दिशं विशदयति-अनियतेति । कालनिराकरणाय अनियतेति । अस्त्येकं मूर्तमवधिं कृत्वा मूर्तान्तरे परत्वादिव्यवहारः । तत्परत्वादेरन्यनिमित्तासम्भवात् प्रमात्रपेक्षया तत्तद्देशादिसंयोगो निमित्तम् । तस्य चानुपसान्तस्य तन्नेति तदुपसान्तस्य
१ सतीति नास्ति ख पुस्तके. २,३ आश्रयत्वे इति च. ४ काले इति च. ५ यदिति नास्ति च पुस्तके. ६ तहध्यजन्यत्वमिति च. ७ वारणायेति च ८ पदमिदं नास्ति च. पुस्तके. ९ चेदनियतेति च. १. अविवक्षितेति च. "कालकृतमित्वमिति च. १२ ज्येष्ठत्वादीति ट. १३व्यवच्छेदार्थमिति,..