________________
निरूपणम्]
टीकापयोपेता . [वा. टी.] गुरुस्वसाधादम्भो निरूपयति-स्नेहवदिति । सङ्ग्रहासाधारणगुणविशेषः स्नेहः, तदधिकरणमित्यर्थः । न च द्रवत्वेनैव सङ्घहो भविष्यतीति वाच्यम् , द्रवीभूतानामपि करकादीनामसङ्ग्राहकत्वात् । गुणत्वञ्च सातिशयादवगन्तव्यम् , ततो नासम्भवाद्याशक्का । योनिजत्वमपाकरोतितञ्चेति । अत्राप्त्वादिस्येव हेतुः, कार्यपदन्तु व्यर्थम् । न चात्र चेतनानधिष्ठितत्वमुपाधिः, मशकादिशरीरेषु साध्याव्याप्तेः । गन्धहीनाः स्नेहयुताः सलिलस्याप्यमी गुणा मता इति ।
__ (तेजोलक्षणं तद्विभागश्च) अगुरुत्वे सति रूपवत्तेजः। तन्नित्यानित्यभेदावेधा। आद्यं परमाणुः । उत्तरं द्वेधा-नित्यसमवेतम् अन्यथा चेति । आचं यणुकम् । तेजस्त्वं नित्यसमवेतवृत्ति दीपसुवर्णजातित्वात् , सत्तावदिति परमाणुयणुकयोस्सिद्धिः । नासिद्धं साधनम् । तेजस्त्वं सुवर्णवृत्ति दीपाणुजातित्वात्, सत्तावदिति साधनात् । उत्तरं शरीरादिभेदेन त्रेधा। पूर्वत्र प्रमाणम्तैजसाः परमाणवः पारम्पर्येण शरीरारम्भकाः, स्पर्शवत्परमाणुत्वात्, पृथिवीपरमाणुवदिति शरीरसिद्धिः । तदयोनिजमेव, तेजःकार्यत्वाद्दीपवदिति। [ब. टी.] तेजस्त्वमिति । दीपश्चाणुश्च तद्वृत्तिजातित्वादित्यर्थः । अणुत्वे व्यभिचारवारणाय दीपेति । दीपत्वे व्यभिचारवारणाय अण्विति । अणुदीपान्यतरत्वे व्यभिचारवारणाय जातित्वादिति । यद्वा दीपस्थाणुतद्वृत्तिजातित्वादित्यर्थः । न चाप्रयोजको हेतुः, सुवर्णस्य (तेजसश्च १ तेजस्सा)धकयुक्तीनामन्यत्र सुलभत्वात् । [अ. टी.] पृथिव्युदकयो रूपवतोर्व्यवच्छेदार्थम् अगुरुत्वे सतीत्युक्तम् । वाय्वादिव्यवच्छदार्थ रूपवत्पदम् । ननु तेजस्त्वस्य स्वर्णजातित्वासम्प्रतिपत्तेर्विशेषगुणासिद्धोऽयं" हेतुरिति तत्राह-नासिद्धं साधनमिति । अणुजातित्वादित्युक्ते पृथिवीत्वादौ व्यभिचारस्यादत उक्तम् दीपाणुजातित्वादिति । दीपारम्भका अणवो दीपाणवः । ननु तेजस्त्वं घटवृत्ति, उक्तहेतुदृष्टान्ताभ्यामित्यतिप्रसङ्गः । मैवम् ; सुवर्णे शोध्यमाने तेजस्सारत्वस्य प्रत्यक्षत्ववद्धटस्य तदभावेनाप्रयोजकत्वादिति' । तैजसमपि शरीरं नानेकविधमाप्यवदित्याहतदयोनिजमेवेति । नन्वदितिकश्यपाभ्यां तैजसत्वेनाभिमतादित्यादि जन्ममरणविरुद्धमेतत्, मैवम् ; मधुविद्यादौ देवतानां सूर्यमण्डलस्थामृतोपजीविनीनां रुद्राणामेवैको भूत्वेत्यादिना मातृपितृसम्बन्धमन्तरेण जन्मश्रवणात् , श्रुत्यादिविरोधे च पुराणप्रामाण्यानुपपत्तेः ।
१ तदिति नास्ति मु. २ नित्यानित्यसमवायादिति क. ग. ३ पूर्ववदिति घ. ४ कदाचिच्छरीरेति ग. ५पदमिदं नास्ति क. ग. पुस्तकयोः. ६ वायुत्व इति छ. ७ अयमिति नास्ति ज.ट. पुस्तकयोः.
नासिद्धसाधनमिति झ. ९ नैवमिति ज. ट. १० तेजसारब्धत्वस्येति ट. ११ इतीति नास्ति ज. ट. पुस्तकयोः. * छान्दोग्ये मधुविद्या द्रष्टव्या। १२ श्रुत्या विरोधे इति ज. ट.। । जैमिनिना प्रथमतृतीयाधिकरणे श्रुतिविरुद्धानां स्मृतीनां पुराणानाञ्चाप्रामाण्यं साधितम् ।