________________
निरूपणम्]
टीकात्रयोपेता [अ. टी.] आत्मादेः शरीरादिव्यतिरिक्तत्वेऽपि विषयत्वाभावादत उक्तम् स्पर्शवानिति । व्यणुकव्यवच्छेदार्थ कार्यजात इति । स्पर्शवत्वे सति शरीरेन्द्रियव्यतिरिक्तपरमाणुव्यवच्छेदार्थ जातं इत्युक्तम् । कार्यजातो विषय इत्युक्ते हस्तादिक्रियायां व्यभिचारस्स्यादत उक्तम् स्पर्शवानिति । एवमपि शरीरादौ व्यभिचारस्स्यादत उक्तम् शरीरेत्यादि । गन्धरूपरसस्पर्शा गुणाः, संख्यादयः क्षितेः परापरगुरुत्वानि द्रववेगौ चतुर्दश । यदुक्तं 'गन्धवान् परमाणुः पार्थिवः स' इत्यादि तदन्यत्रापि ज्ञेयमित्यत आह-एवमिति । स्नेहवान् यः परमाणुरुदकपरमाणुरित्यादिप्रकारेण पदानुगमात्तल्लक्षणानि द्रष्टव्यानि । - [वा. टी. ] स्पर्शवानिति । परमाणुनिवृत्तये जात इति । द्यणुकनिवृत्त्यर्थ कार्येति । कार्याजातः कार्यजातः । पटरूपेऽतिव्याप्तिपरिहाराय स्पर्शवानिति । शरीरादावतिव्याप्तिपरिहाराय तद्व्यतिरिक्त इति । द्रव्यत्वसिद्धये गुणानाह–सेति । द्रववेगगुरुत्वश्च रूपायैकादशावधीति चतुर्दश गुणाः । यथा गन्धवान् परमाणुः पार्थिवः परमाणुः, तथा स्नेहवान् परमाणुराप्यः परमाणुरित्याह-एवमिति ।
(जललक्षणम् तद्विभागश्च ) लेहवदम्भः । नित्यमनित्यश्चेति । पूर्व परमाणुरूपम् । उत्तरं द्वेधानित्यसमवेतम् अन्यथा चेति । पूर्व घ्यणुकम् । अस्त्वं नित्यसमवेतवृत्ति, सरित्समुद्रजातित्वात् सत्तावदिति परमाणुद्ध्यणुकयोस्सिद्धिः । उत्तरं शरीरादिभेदेन त्रेधा।
(जलीयशरीरे प्रमाणम्) शरीरे प्रमाणम्-आप्याः परमाणवः पारम्पर्येण शरीरारम्भकाः, स्पर्शवत्परमाणुत्वात्, पृथिवीपरमाणुवदिति । तच्च शुक्रशोणितसन्निपातनिरपेक्षम् , आप्यकार्यत्वात् करकादिवदिति । तत् प्रकृष्टादृष्टजम्, अयोनिजशरीरत्वात्, मशकादिशरीरवत् । सुखभूयस्त्वान्नाधर्मजम् । ५... (जलीयेन्द्रियं तत्र प्रमाणञ्च ) .
लेहँवदिन्द्रियं रसनम् । आप्याः परमाणवः. पारम्पर्येणेन्द्रियारम्भकाः स्पर्शवत्परमाणुत्वात्, तेजःपरमाणुवदिति तत्र प्रमाणम् । उत्तरी विषयः सरिदादिः। रूपादिचतुर्दशगुणवत् । ...इत्युक्तमिति ज. ट. २ पदद्वयमिदं नास्ति झ पुस्तके. ३ स स्यादिति ज. ट. ४ पार्थिवः परमाणु. रिति स. ५ इत्याहेति ज. ट.६ पदमिदं नास्ति ज. ट. पुस्तकयोः. ७ तदिति नास्ति ज.ट. पुस्तकयोः. 6 इतीति नास्ति क. ख. पुस्तकयोः. ९ रूपमिति नास्ति क. ख. पुस्तकयो. १. अन्त्यमिति मु, अम्लमिति ख. "पार्थिवपरमाणुवदिति ख. १२ कनकेति मु, करकावदिति ख, करकबदिति क. १३ तत्र सुखेति क. १४ पदमिदं नास्तिक. ख. पुस्तकयोः. १५ शरीरं समुद्रादिरिति मु. १६ गुणवत्वमिति ख. .
प्रमाण•३ -