________________
प्रमाणमञ्जरी
[ द्रव्य
[अ. टी.] प्रकृष्टधर्मजायोनिजशरीरं द्रौपद्यादेरागमसिद्धम्, अनुमानतोऽपि तत्सिद्धिरित्याहपार्थिवा इति । परमाणूनां साक्षाच्छरीरारम्भकत्वं नास्तीति बाधस्स्यात् । अत उक्तम्पारम्पर्येणेति । व्यणुकादिक्रमेणेत्यर्थः । तदपि सर्वदा नास्तीति स एव दोषे इत्यत आह- कदाचिदिति । अयोनिजमशकादिशरीरारम्भकत्वेन सिद्धसाधनताव्युदासार्थं प्रकृष्टधर्मजेत्युक्तम् । परमाणुत्वं निरतिशयाणुपरिमाणवत्वं, तन्मनसि व्यभिचरतीति स्पर्शवत्पदम् । उदकपरमाणूनामेतादृग्देहारम्भकत्वम् “अदोऽम्भः परेण दिवम्" इत्याद्यागमसिद्धं द्रष्टव्यम् ।
[वा. टी.] यत्तु मतम्—दाहक्केदादिदर्शनेन पाञ्चभौतिक शरीरमिति, तन्न; पञ्चानां भूतानां समवायिकारणत्वे समवायिकारणगता गुणाः कार्ये गुणानारभन्त इति न्यायाच्छीतोष्णत्वाद्यनेकविरुद्धधर्माधिकरणत्वेन वस्तुभेदः प्रसज्येत । तत्तद्गुणाभिव्यज्यमानानां परस्परपरिहारेण स्थितानां पृथिवीत्वादीनामेकत्र समावेशे जातिसङ्करश्च । तस्मात्तानि निमित्तान्येवेति न पाञ्चभौतिकत्वमिति तदे - तन्मनसि निधाय प्रतिज्ञायां पार्थिवा इति पदम् । पारम्पर्येण व्यणुकादिक्रमेणेत्यर्थः । अन्यथा नष्टेऽवयविनि अवयवदर्शनं न स्यात् । साक्षादण्वारब्धत्वेऽप्रत्यक्षत्वञ्च सततारम्भे प्रलयानुपपत्तिः, तन्निराकरोति — कदाचिदिति । सिद्धसाधन परिहाराय शरीरेति । योनिजारम्भकत्वेन सिद्धसाधन परिहाराय अयोनिजेति । अयोनिजमशकादिशरीरारम्भेण सिद्धसाधनपरिहाराय प्रकृष्टेति । पाकावस्थाणुनिरासाय स्पर्शवदिति । घटनिवृत्तये परमाणुत्वादिति ।
*
( इन्द्रियसामान्यलक्षणम् )
षड्गुणमप्रत्यक्षं साक्षात्कारप्रतीतिसाधनमिति सामान्यलक्षणम् । [ब. टी. ] षड्गुणमिति । शरीरादावतिव्याप्तिवारणाय अप्रत्यक्षमिति । साक्षात्त्वं जातिः, न त्विन्द्रियजन्यत्वम् । तेन न व्यर्थता, न वात्माश्रयः । प्रतीतिपदं देयमेव, तेन साक्षात्वाधिकरणसाधनमित्यर्थः । इदन्तु विशेषणं परमाण्वादावतिव्याप्तिवारणाय । कालादावतिव्याप्तिवारणाय षड्गुणमिति । गुणविभाजकोपाधिमत्वेन षड्गुणमित्यर्थ इति यत् तत्रेश्वरात्मन्यतिव्याप्तिः । न च षडेव गुणा इति विवक्षितम्, ईश्वरे चाष्टौ गुणा इति नातिव्याप्तिः, तदा घ्राणादावव्याप्तेः । यत्तु षट्सङ्ख्यात्वं विवक्षितमिति त; आकाशदिगीश्वरेषु प्राणवायुर्सहितेष्वतिव्याप्तेः । न चेन्द्रिर्यत्वेन रूपेण षट्त्वं विवक्षितमिति वाच्यम्, आत्माश्रयात्, प्रकारान्तरस्य वक्तुमशक्यत्वाच्च । तस्मात् षङ्गुणमिति स्वरूपकथनमात्रम् । तस्मात्कालादावतिव्याप्तिवारणाय प्रकृतज्ञानकारणीभूतशरीरनिष्ठसंयोगा
१ इत्यत आहेति श. २ दोषोऽत इति ज ट ३ न देयमेवेति च ४ व्याप्तेरिति च.' ६ तत्रेति च. ७ आकाशकालेति च. ८ वायुद्वयेति च.
मेवेति च.
द्विवेतच.
५ घ्राणादा